SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ * नीलाश्मवेश्मप्रतिबिम्बमन्त - र्दधद्भिरेतत् तपनीयगेहै: 1 रामेण नीलं ’वहता दुकूलं, श्रिया समालम्ब्यत तुल्यभावः ॥ ९५॥ वृन्दारकालीभिरलङ्कृताया, असूययेवामरराजपुर्याः 1 तृणीकृत श्रीतनयावनीप-रूपानसौ धारयति स्म मत्त्र्त्यान् ॥ ९६॥ प्रभापराभावुकवैभवायाः, यस्याः स्वपुर्याश्च परस्परेण । उत्तीर्णगीर्वाणगणैर्जनानां, व्याजादिवावि:ऋि(ष्क्रियते स्म साम्यम् ॥ ९७॥ लघूकृतस्वर्ललनाविलासा, विलासिनीर्यत्र निभालयित्वा । विहाय गेहं स्वमिवादितेयै - रिहावतीर्णं व्यवहारिंदम्भात् ॥ ९८॥ सर्वानुवादैरिव मीनकेतो -लींलालसैर्यत्र विलासिवृन्दैः । निर्भर्त्सितैर्भूमितलं भुजङ्गै- र्मदाक्षलक्ष्यैरिव विश्यते स्म ॥ ९९॥ विगानितानङ्गकुरङ्गनेत्रा-श्चकासिरे यत्र गजेन्द्रयानाः I अमोघशक्तीर्मकरध्वजोर्व्वी - पुरन्दरस्येव जगद्विजेतुम् ॥ त्यक्त्वा श्रुतीन् कञ्चुकिनो द्विजिह्वान्, प्राणप्रियान् यौवतकैतवेन । पुरी किमेतद्युवकामुकीभि - रध्यास्यते नागनितम्बनीभिः ॥ १०१ ॥ मंदालसा यत्सरसीरुहाक्ष्य, श्रीमन्मनोजन्ममणीगघोनः । इवाग्रदूत्यः परिकल्पयन्त्य-स्तदेकतानानि मनांसि यूनाम् ॥ १०२॥ १००॥ पदे पदे यत्पुरुषषोत्तमौघान् वीक्ष्य श्रिया चन्द्रमुखीमिषेण । पतिव्रतौचित्यमिवोद्वहन्त्या, स्वयं बभूवेव कुमूर्त्तिमत्या ॥ १०३ ॥ ३. दधता इतिं टिः । टिप्पणी अभ्यर्णसौवर्णगुहानुबिम्बं विभ्रद्भिरत्राऽसितरत्नसौधैः । पीतं दुकूलं दधताऽच्युतेन संश्रीयते साम्यमिवात्मलक्ष्म्या ॥ ३० ॥ निमेर्षान: स्वैर्नयनैः सुरीभि र्विभावयन्तीभिरदः समृद्धिम् । सौधेषु दन्तादिव पुत्रिकाणां रक्षातिरेकैः स्तिमितीबभूवे ॥ ३१ ॥ ३१
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy