________________
५५चिराशनायाकुलितं कुरङ्ग, सुधाऋचा चारयितुं नभस्तः । उपान्तसंरूढविनीलनीले, बिम्बच्छलाद्यत्सलिलेऽवतेरे ॥ ७४ ॥ ५५उदस्तहस्ते पवनावधूत-वीचिच्छलाद्(त्)खातिकयेव यस्याः। एतत्पुरस्ते कियती विभूति-र्वस्वोकसारेति विगीयते स्म ॥ ७५ ॥ ५६मातङ्गिनी पुष्पकरम्बिताङ्गी, कृतानुषङ्गा मधुपैरितीव । विगानधूत्यै कुरुते वनश्री-बिम्बेन दी(दि)व्यं परिखाप्रवाहे ॥ ....... ५७आरामलक्ष्मीरभिसारिकेव, सालेन यूना सह संसिसक्षुः । । बिम्बोपधे: शासनहारिकां स्वां, चिकीर्षुरागात्परिखामिवैषा ॥ ७७ ॥ ५“यद्वप्रनानामणिराजिनिर्य-ज्योति:प्ररोहैर्दिवि संचरद्भिः । . प्रपञ्च्यते स्म प्रसरत्पयोदं, विनाऽपि सङ्क्रन्दनचापचक्रम् ॥.७८ ।। वहन् हरिं यद्वरणः स लक्ष्मी, कपाटपक्षोऽथ सुवर्णकायः। ... विगाहमानो गगनं कथं न, लभेत तार्थेन(ण) सदृक्षभावम् ॥ ७९ ॥ प्रियं ब्रुवाणा जनतारवेण, सारङ्गनाभीसुरभीभवन्तम् । गजेन्द्रयानां वरणो युवेव, पुरीमहेलां परिरभ्य तस्थौ ॥ ८०॥ .. जगत्त्रयीसंभवशस्तवस्तु-विस्तारसम्पूरितमध्यदेशैः ।... यत्रापणैः कुत्रितयापणानां श्रेणी सगोत्रैरिव भूयते स्म ॥ ८१॥
टिप्पणी ५४. अयं पयः पाययितुं किमस्या-मागान्मृगं चारयितुं च शष्पान् ।
बिम्बं विधोर्यत्परिखाजलान्त-ालोक्य लोकैरिति कल्प्यते स्म ॥ ७॥ ५५. यद्(त्)खातिवात(तेन) ललुत्तरङ्ग-हस्तादुदस्य प्लव[न]स्वनेन ।
एतत्पुरस्ते कियती विभूति-र्वस्वोकसारामिति निन्दतीव ॥ ८॥ ५६. मातङ्गिनी पुष्पवती च नित्यं, कृतानुषङ्गा मधुपैरितीह ।
निन्दाछिदे यत्परिखाम्भसीव, बिम्बेन दिव्यं कुरुतें वनश्रीः ॥ ९॥ ५७. आरामलक्ष्मीरिह पांशुलेव सालेन यूना सह संसिसृक्षुः ।
बिम्बोपधेः शासनहारिकां [स्वां], यद्(त्) खातिकां कर्तुमुपेयुषीव ॥ १०॥ ५८. यदीयवप्रेण मणीमयूखै-र्नीलीविनीले नभसि स्फुरद्भिः । अकाण्डमेवाम्बुधरो....प्रपञ्च्यते....चापचक्रम् ॥ ११ ॥
DORCO0ODORO
ऋ