________________
४९प्रह्लादनाह्वा नगरी चकास्ति हिरण्मया तत्र हरेः पुरीव । श्रीगूर्जरक्षोणिपुरन्दरस्य माणिक्यगर्भेव कुनाभिकुम्भी ॥ ६७ ॥ भर्ता मरुत्वान्मन कौशिकश्च गोत्रस्य हन्तेति जुगुप्समाना । मिषादमुष्याः परिहत्य नाकं पुरी किमागादिह पौरुहूती ॥ ६८॥ ५“यस्यां मणीकर्मविनिर्मिताना-मभ्रंलिहानां गृहधारणीनाम् । मध्यंदिने शृङ्गगणाङ्गणेषु मार्तण्डबिम्बं कलशायते स्म ॥ ६९॥ ५'छायापथोऽभ्रंलिहमन्द्रिराणां दण्डायते शिखान्तरेषु । ध्वजायते सिद्धधुनी ध्वनन्त्यो-ऽप्यकिङ्किणीयन्त तदीयहंस्यः ॥ ७० ॥ ५२अखेलि खे यद्गृह श्रृङ्गवात-वेल्लत्पताकापटपल्लवौधैः । यद्दर्शिभिर्विष्णुपदीप्रवाहैः सहस्रकायैः कुतुकादिवासे ॥ ७१ ॥ यद्वर्णनाकर्णनतद्दिदृक्षा-रत्नाकुलीभूतहदार्णवेन . । अस्थायि यस्यां परिखामिषेण, जाने लघूभूतवता समेत्य ॥ ७२॥ ५ रोमाञ्चिता वीचचयेन मीनैः, स्मितेक्षणा द१ररावचाटुः । विलासिभिर्वारविलासिनीव, प्रभञ्जनैर्यत्परिखा न्यषेवि ॥ ७३ ॥
टिप्पणी, ४९. तत्रास्ति पौलस्त्यपुरायमाणं, प्रह्लादनं नाम पुरे प्रधानम् ।
निःशेषनृवृद्धितयोर्जितस्य, श्रीगूर्जरस्येव निधानकुम्भः ॥ १॥ ४९. हिरण्मयं सूरिंकुलाभिरामं, विलासिरामं पुरुषोत्तमश्रि ।
श्रीनन्दनानन्दि समीक्ष्य तार्क्ष्य-पुरं मुरारेरिव यच्चकास्ति ॥ २॥ भुजङ्गमानां च सुधाशनानां, निवासयोः सारदलैर्गृहीतैः ।
व्यधायि यद्वारिजनन्दनेन, न चेत्किमाभ्यामतिरिच्यते तत् ॥ ३ ॥ ५०. नानामणीकर्मविनिर्मिताना-मभ्रंलिहानामिह मन्दिराणाम् ।।
महानिशायां शिखरान्तरेषु, शीतांशुबिम्बं कलशायते स्म ॥ ४॥ ५१. दण्डायते च त्रिदशाध्वदण्डा, ध्वजायते सिद्धधुनीप्रवाहः । ___ अकिङ्किणीयन्त पुनस्तदम्भो-विलासि हंस्यो मधुरं ध्वनन्त्यः ॥ ५॥ युग्मम् ॥ ५२. अखेलि खे मारुतवेगवेल्ल-द्यद्वैजयन्ती पटपल्ल[वोधैः] ।
सह[स्र]कायैरिव कौतुकाद्य-द्दिदृक्षुभिर्विष्णुपदीप्रवाहैः ॥ ६॥ ५३. रोमाञ्चिता वीचिचयैर्दुलीनां स्वनैः स चाटुः शफरैः स्मिताक्षी । ____ व्यालोकि लौकैः परिखानिलेन, चलीकृता वारविलासिनीव ॥ ६॥
OMOTION २७ TOMORROOM