________________
"भृङ्गेक्षणाश्चन्दनपत्रभङ्गा - बिम्बाधराः कोकिलबालरावाः ।
मत्तेभयाना इव गन्धवाहै - र्यस्मिन्नसेव्यन्त निकुञ्जलक्ष्म्यः ॥ ६१॥
४५ वसन्तभर्त्रा सह संसृजन्त्या वनश्रिया यत्र मुदं वहन्त्याः । कुन्दद्रुमाणां कलिकाकलापैर्दन्तैरिवैतैः प्रकटीबभूवे ॥
४६ यस्मिन्विभान्ति स्म विलासदोलाः
६२॥
स्मितावनीजन्मशिखाप्रणद्धाः ।
समं रतिप्रीतिनितम्बिनीभ्यां ससज्जिरे रन्तुमिव स्मरेण ॥ ६३॥ ४७ अगायि यस्मिन्मधुरं निकुञ्जे प्रसूनलुभ्यन्मधुपावलीभिः । वसन्तकान्तप्रथमानुषङ्गे वनश्रिया मङ्गलगर्भगीतिः · 11 ६४॥
“पुष्पायु[ धो]र्व्वतलशीतलांशोः सम्प्रस्थितस्येव जगद्विजेतुम् । अदुन्दुभीयन्त पिकाङ्गनानां यस्मिन्स्वनाः पञ्चमगीतिगर्भाः ॥ ६५॥
पदे पदे यत्र रसालमाला निभालय कूजत्कलकण्ठबालाः । स्मरावनीन्दुस्तृणवत्त्रिलोकी-मजीगणन्निस्तुलशस्त्रलाभात् ॥ ६६॥ इति ।
टिप्पणी
४४. प्रसूननेत्रा कलकण्ठकण्ठी बिम्बाधरा मत्तगजेन्द्रयाना । भुजङ्गवेणी स्तबकस्तनी च भुक्ता वनश्रीरिह गन्धवाहैः ॥ ५३॥ ४५. स्वः कानन श्रीसखितां वहन्त्याः स्वविभ्रमैश्चैत्ररथं हसन्त्याः । आरामलक्ष्म्या मुचकुन्दवृन्द- दम्भादिवास्मिन्दशनाः स्फुरन्ति ॥ ६३ ॥ स्मरावनीजन्मशिखावनद्धा यस्मिन्लसन्ति स्म विलासदोलाः । रन्तुं रतिप्रीतिनितम्बिनीभ्यां वितेनिरे चित्तभुवेव यूनाम् ॥ ६२॥ ४७. लीलायमानाः सहकारशाखा - शिखान्तरे केलिशुकाः क्वणन्ति । न व्यानुषङ्गे मधुनेव भर्त्रा वनश्रिया मङ्गलगर्भगीतिः ॥ ६१ ॥ ४८. यस्मिन्प्रवालप्रबलायुधानां संवर्मितानां स्मितताच्छलेन ।
४६.
महीरुहां स्वर्दु [ मतुल्य ?] काना- मदुन्दु [ भीयन्त ] पिकाः क्व [ णन्तः] ॥ ६४ ॥
२६