________________
३९ श्रेणीभवन्ती कलहंसमाला लीलायते यत्र सरित्प्रवाहे । निद्भूतमुक्ताफलमालिकेयं श्रिया श्रवन्त्या इव पर्यधायि ॥ ५३॥ "उर्जम्भिजाम्बूनदपद्मनिर्य-न्मरन्दनिः स्यन्दपिशङ्गिताङ्गम् । पयोधरद्वन्द्वमिव श्रवन्ती श्रिया रथाङ्गद्वयमाबभासे ॥ ५४॥ स्ववल्लभं वारिनिधिं व्रजन्त्याः कूलङ्कषायाः कलहंसशब्दैः । रणज्झणन्नपुरझाङ्कृतीनां ध्वानैरिवाभूयत यत्र देशे || अशोभि यस्मिन्स्मितहेमपुष्पैर्मधुव्रतव्रातनिपीतपोष्पैः । गाङ्गेयगेहैरिव सन्तुमेतैर्वसन्तकान्तेन निकुञ्जलक्ष्म्याः || ५६॥ ४`दन्ध्वन्यमानद्विजराजिराव- तूर्यां स्फुरत्कुड्मलकोटिहेतिम् । यस्मिन्जगज्जेतुमनन्यजन्मा ससज्ज सेनामिव चूतपङ्गिम् ॥ ५७॥ * सर्वर्त्तुभिर्यत्र पुरोपकण्ठ-क्रीडावनान्तर्वसतिर्वितेने 1 यद्भाविनं हीरकुमारराजं सम्भूय सुश्रूषयितुं किमेतैः ॥ ५८॥
५५ ॥
प्रेङ्खोलितैर्यत्र जलेन स्वर्गै: सुधांशुदेशीयविकाशिकासैः । श्रिया निकुञ्जस्य वसन्तकान्तः प्रकीर्णकौधैरुपवीज्यते स्म ॥ ५९ ॥
केलीवने यत्र पिकद्विरेफध्वानोपधेः मुष्पधनुर्वसन्तौ । विनिर्मिमाते स्म मिथः प्रवृत्तिं मृत्युञ्जयं जेतुमिव प्रतीपम् ॥ ६०॥ टिप्पणी ३९. मुक्तालताङ्केव निजोपकण्ठ-श्रेणीभवत्सारसमालिकाभिः । सि(शि)जांनमञ्जीरवतीव रावैः, स्वकूलकूजत्कलहंसिकानाम् ॥ ५२॥ ४०. भ्राम्यद्विरेफस्मितवारिजेन प्रफुल्ललोलन्नयनाननेव ।
रथाङ्गयुग्मेन गलन्निवाल- पयोधर [ द्वन्द्वमि] वोद्वहन्ती ॥ ५३ ॥ ४१. रन्तुं वसन्तेन समं प्रियेण, गाङ्गेयगेहैरिव कुञ्जलक्ष्म्याः ॥ ५६॥ ४१. वसन्तकान्तेन निकुञ्जलक्ष्म्या, विलासहासा इव भान्ति कासाः । यद्वा पराभूतमरुद्वनाया-स्त्या जयाङ्का इव रोमगुच्छाः ॥ ५७ ॥ ४२. निश्वानरावं तुमुलैरलीनां शाखाशयालम्बित (सून) पुष्पशस्त्रा । स्मरस्य विश्वस्य जयाय यस्मिन्ननीकिनी वाजनि शाखिलेखाः ॥ ५५ ॥
४३. यद्भाविनं हीरकुमारराजं स्वस्वप्रसूनादिनभोपदाभिः ।
प्रभूय शुश्रूषयितुं किमत्र सर्वर्त्तवः केलिवने वसन्ति ॥ ५४ ॥
२५