________________
३२कुत्रापिदम्यैनुगम्यमाना गोधुग्गणैर्दोणदुघा निकुञ्जम् । यस्मिन्ननीयन्त वनं सुराणां मरुत्कुमारैरिव कामगावः ॥ ५७॥ ३"कुत्रापि दम्यैरनुगम्यमाना मरुत्कुमारैरिव गोपबालैः । गवां गणाः कामदुघोपमेयाः यस्मिन्ननीयन्त वनप्रदेशम् ॥ ४७॥ पाठान्तरम् ॥ ३५सुधासुधासिन्धुसुधांशुलक्ष्मी-मुषां मिषाद्यत्सुरभीभराणाम् । इवाल्पशेषैः सुकृतैः सुराणां स्व:सौरभेयीभिरिहावतीर्णम् ॥ ४८॥ . ३६यस्मिन्नृणां क्रीडितुमागतानां हंसस्वनैः स्वागतवादिनीभिः ।
आदाय पद्मानि तरङ्गहस्तैः सरिद्भिरर्थः किमुकल्प्यते स्म॥ ४९॥ ३"कुरङ्गनाभीकृतपत्रभङ्गै-निस्तन्द्रसान्द्रद्विजचन्द्रिकाङ्कः ।.. क्रीडन्महेलावदनारविन्दैर्जज्ञे श्रवन्ती शतचन्द्रिकेव ॥ ५० ॥ खेलायितुं यत्र विलासभाजा-माजग्मुषां चन्द्रमुखीसखीनाम् । चक्राङ्गचक्रध्वनितेन जाने स्म शैवलिन्यः सममाह्वयन्ति ॥ ५१॥
३८निभाल्य फुल्लद्दलपुण्डरीकं मध्ये प्रवाहं शशभृद्भ्रमेण । ज्योत्स्नाप्रियैर्यत्र विमुग्धचितै-रभ्राम्यताभ्यर्ण इवामृतार्थम् ॥ ५२ ।।
टिप्पणी । ३३. कुत्रापि दम्यैरनुगम्यमानाः, कैलासकेलीशिखरायमाणाः ।
सुधाभुजो द्रोणदुघाश्चरन्ति, मूर्ती समाज्ञा इव [म]ण्डलस्य ॥ १ ॥ ३४. गोपालबालैर्दिविषत्कुमारै-रिवानुयाताः सुरभीसमूहाः ।।
दिवोवशेषैः सुकृतैः सुराणा-मिवावनौ कामदुघाः समीयुः ॥ १॥ ३५. ब्रह्माण्डभाण्डोपरिभित्तिभाग-प्रोत्तानयानोद्भवदतिभाजः ।
स्व:सौरभेयीनिवहा इवोर्वी, चरिष्णवो यत्र विभान्ति गावः ॥ १॥ ३६. यूनो रिरंसोपगतान्सकान्तान्, किं स्वागतं हंसरुतैः सृजन्त्यः ।
तरङ्गहस्तस्थितवारिजैर्वा, किमर्थमस्मिन्प्रणयन्ति नद्यः ॥ ५० । ३७. कपोलपालीस्फुरदेणनाभी-पत्राङ्कितैश्च द्विजजन्द्रिकाङ्कः । ___ क्रीडन्मृगाक्षीवदनैः सहस्र-चन्द्रेव यस्मिन्नदिनी दिदीपे ॥ ५०॥ ३८. विधोर्धिया यत्र सरित्प्रवाहै-बनालिफुल्लद्दलपुण्डरीका ।
प्रेक्ष्याभितो मुग्धचकोरडिम्भा, भ्रमन्ति पीयूष पिपासयेव ॥.५२ ।। OBOE px BOBCE