________________
'द्वीपश्रियाः श्वेतमरीचिचण्ड-रोचिर्द्वयीमण्डलकुण्डलायाः । स्म द्योतते तारकतारहार-स्तनान्तरे रत्नमिवामराद्रिः ॥ ८॥ 'अन्तः प्रतिच्छायिततारमुक्ता-मणीमरीचिस्फुरदिन्द्रचापा । १ काञ्चीपदे द्वीपमहीन्दिरायाः सौवर्णकाञ्चीव चकास्ति सालः ॥९॥ १९पुन्नागनारंगरसालसाल - निष्पातिपौष्पप्रसरत्प्रवाहः । द्वीपेन्दिराया इव रत्नसानुः खेलायितुं पद्मभुवा व्यधायि ॥ १०॥ ज्योतींषि यस्मिन्सुरराजशैलं प्रदक्षिणप्रक्रमणं नयन्ति । सुवृत्तकल्याणमयः क्षमाभृ-त्सुस्थो महात्मायमितीव बुद्धेः ॥ ११ ॥
प्रदक्षिणीभूतवतां ग्रहाणां वृन्दानि वृन्दारकसानुमन्तम् । व्याजेन जाने प्रसरत्कराणा-मभ्यर्थयन्ते तपनीयजातम् ॥ १२ ॥ जागर्ति तस्मिन्भरताभिधनं क्षेत्रक्षितिश्रीतिलकायमानम् । उच्चित्य सारं विधिनेव जम्बू-द्वीपस्य निक्षिप्तमिहैकदेशे ॥ १३॥ १ वैताढ्यशैलेन विभक्तमन्त-विद्योतते भारतभूमिपीठम् । सीमन्तदण्डेन यथा सुकेशी-कैश्यं यमीरङ्गितरङ्गदेश्यम् ॥ १४॥ वैताढ्यभूमीध्रविभक्तभाग-द्वयस्य दम्भादिव भारतस्य । 'द्वीपावनीपालमुपेत्य लक्ष्म्या स्वर्नागलोकौ विजितौ भजेते ॥ १५॥ . __
टिप्पणी ८. यद्वीपलक्ष्म्याः सरसीजबन्धु-सुधारुचीमण्डलकुण्डलायाः । . ___ तारावलीमौक्तिकहाररत्न-मिवोरसि स्व:शिखरी बभासे ॥ ८॥ ९. सङ्क्रान्तताराततिमौक्तिकाङ्का० । १०. काञ्चीपदे काचन मेखलेव, द्वीपश्रियोऽस्या जगती चकास्ति ॥ ९॥ ११. पुन्नागनारङ्गलवङ्गपूग-रसालसालावलिसालमानः । ___ सुवर्णशौलो विललास यस्या, द्वीपस्य लक्ष्म्या इव केलिशैलः ॥ १०॥ १२. प्रदक्षिणप्रक्रमणप्रगल्भा, ग्रहा इवैते प्रसरत्करैः स्वैः ।
अभ्यर्थयन्तैर्विजना महेभ्य-मिवार्थजातं सुरसानुमन्तम् ॥ ११ ॥ १३. विभज्यमानेव विभाति तद्भाति तद्भारतभूतधात्री [?] ।
सीमन्तदण्डेन चलच्चकोर-विलोचना कुन्तलवल्ली(ल्ली)रीव ॥ १४॥ १४. सुरासुराणां सदने समेत्य, द्वीपं भजेते विजिते स्वलक्ष्म्याः ॥ १५ ॥ COCOCC88 BOCOTTE
DOVOLVOOLVOOL