SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री भद्रंकरमुनि रचित श्री हीरसूरीश्वराष्टकम् ॥ ( उपजाति) स्वपरागमज्ञः, कुशाग्रमेधाजितदेवसूरिः 1 युगप्रधानः जगद्गुरु र्जङ्गमकल्पशाखी, तन्याच्छिवं वो मुनिहीरसूरिः ॥ १ ॥ यशः शशीवाखिलदिक्प्रगामि, कलंकराहित्य - युतं तु चित्रं । सच्चक्र-बाढ-प्रमदैक-हेतु:, श्री - हीरसूरे मनुजान्पुनातु || २॥ मध्येसभं भाति यदीयन्नाणी, पानीयवत्कर्ममलं हरन्ती I औदात्त्य - गाम्भीर्यमयी सुचार्वी, माधुर्य - घुर्या शुचितां वहन्ती ॥ ३॥ " समागतान् वादिगजान् सुसज्जान्, वादस्थले सिंह इवातिगर्जन् । श्रीहीरसूरिजिनशासनस्य, पुष्फोर जित्वा विजयध्वजं यः || 8 || ✔ तपः प्रभावः प्रथितोऽतिशायी प्रबोधयन् श्रीमदकब्बरादीन् । नृपाननेकान्यवनेषु मुख्यान्, व्यापत्त्रिलोक्यां गुरुहीरसूरेः ॥ ५॥ श्री - शान्तिचन्द्र- प्रमुखैः स्वशिष्यैः, विद्याश्चतस्रः समुपेयिवद्भिः । वज्रीव देवः समुपास्यमानः, श्रीहीरसूरि दिशतात्सुखं नः ॥ ६॥ स्याद्वादं-सिद्धान्तमबाध्यमेनं, प्रमाणयन् युक्तिशतैः प्रयुक्तम् । समन्वयन् भिन्नमतं स्वदृष्ट्या, श्रीहीरसूरि र्जयतात्सुखेन ॥ ७॥ चारित्रिमुख्याय विचक्षणाय, जिनेशसिद्धान्त-निरूपकाय लोकोपकारंकरताय तुभ्यं, श्रीहीरसूरिप्रभवे नमः स्तात् || 1 ८ ॥ (इन्द्रवज्रा ) ( प्रशस्तिः ) श्रीलब्धिसूरौ कमलाकराभे, सत्पद्मरूपो भुवनाख्यशिष्यः । जातो हि तस्य भ्रमरोपमेण, भद्रंकरेणाष्टकमाशु दृब्धम् ॥ ९॥ १७ F7 GN Ol
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy