________________
वाग्भिर्मुधाकृतसुधाभिरुदंचिचेताः
. श्राद्धः स शोभनमना भजति स्म भावम् ।। श्रीसं[घभ]क्तिघनदानजिनेंद्रचैत्यो
द्धारादिकर्मसु भृशं सुकृतिप्रियेषु ॥ ३९ ॥
(विशेषकम् ।) ग्रहै: प्रशस्तेऽह्नि सुपार्श्वभर्तु
[र]नन्तभर्तुश्च शुभां प्रतिष्ठाम् । सोऽचीकरत्षड्युगभूप १६४६ वर्षे ..
हर्षेण सौवर्णिकतेजपालः ॥ ४०॥ . आदावार्षभिरत्र तीर्थतिलके शत्रु[ज]येऽचीकरश्चैत्यं शैत्यकरं दृषोर्मणिगणस्वर्णादिभिर्भासुरम् । अत्रान्येपि भुजार्जितां फलवतीमुच्चैः सृजंतः श्रियं . [प्रा]सादं तदनुक्रमेण बहवश्चाकारयन् भूभुजः ॥ ४२ ॥ तीर्थेऽत्र साधुकरमाभिधो धनी
सिद्धि सिद्धि तिथि १५८८ संख्ये । । चैत्यम[ची] करदुक्तेरानंदविमलमुनिराजाम् ॥ ४३ ॥ तं वीक्ष्य जीर्ण' भगवद्विहारं स तेजपालः स्वहदीति दध्यौ । भावी कदा सो . ऽवसरो · वरीयान् यत्रा ऽत्र चैत्यं भविता नवीनम् ॥ ४४॥ अन्येद्युः स्वगुरूपदेशशरदा कामं वलक्षीकृतस्वांतांभाः स वणिग् व[र]पुरवरे श्रीस्तंभतीर्थे वसन्। तीर्थे श्रीमति तुंगतीर्थतिलके शजयेऽर्हदृहोद्धारं कर्तुमना अजायततमां साफल्यमिच्छञ् श्रियः ॥ ४५ ॥ अत्र स्यात् सुकृतं कृतं तनुमतां श्रेयः श्रियां कारणं मत्वैवं निजपूर्वजव्रजमहानंदप्रमोदाप्तये ।
[24xBOOK