SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ किं च गोवृषभकासरकांताकासरा यमगृहं न हि नेयाः। मोच्यमेव मृतवित्तमशेष वंदिनोऽपि हि न च ग्रहणीयाः ॥ ३२ ॥ यत्कलासलिलवाहविलासप्रीतचित्ततरुणाजनतुष्टयै । स्वीकृतं स्वयमकब्बर धात्रीस्वामिना सकलमेतदपीह ॥ ३३ ॥ चोलीवेगमनंदनेन वसुधाधीशेन सन्मानिता गुर्वी गूर्जरमेदिनीमनुदिनं स्वर्लोकबिब्बोकिनीम् । सवृत्ता महसां भरेण सुभगा गाढं गुणोल्लासिनो ये हारा इव कंठमंबुजदृशां कुर्वन्ति शोभास्पदम् ॥ ३४॥ इतश्चआभूरान्वय[प]द्मसवग्ना ओकेशवंशेऽभव च्छ्रेष्ठी श्रीशिवराज इत्यभिधया सौवर्णिक: पुण्यधीः । तत्पुत्रोऽजनि सीधरश्च तनयस्तस्याभवत्पर्वतः [का]लाह्वोऽजनि तत्सुतश्च तनुजस्तस्यापिवाघाभिधः ॥३५॥ तस्याभूद्वछिआभिधश्च . तनुजः ख्यातो रजाईभवस्तस्याभूच्च सुहासिणी[ति]. गृहिणी पद्मेव पद्मापतेः । इंद्राणीसुरराजयोरिव जयः पुत्रस्तयोश्चाभवतेजःपाल इति प्रहृष्टसुमनाः पित्रोर्मन:प्रीतिकृत् ॥ ३६ ।। [का]मस्येव रतिहरेरिव रमा गौरीव गौरीपतेरासीत्तेजलदे इति प्रियतमा तस्याकृतिः [...........] भोग-श्रीसुभगौ गुरौ प्रणयिनौ शश्वत्सुपर्वादरौ पौलोमीत्रिदशेश्वराविव सुखं तौ दंपती भेजतुः ॥ ३७॥ वैराग्यवारिनिधिपूर्णनिशाकराणां तेषां च हीरविजयव्रतिसिंधुराणाम् । सौभाग्य[भा] ग्यपरभागविभासुराणां तेषां पुनर्विजयसेनमुनीश्वराणाम् ॥ ३८ ॥ ऋऋ २५३B ऋ E
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy