SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 'स्मरन् नमस्कारमपारपापा पहं महानन्दसुखावहं च । मनोवच:कायकृतानि निन्दन् पुनः पुनः पुण्यमना अघानि ॥ ३३ ॥ महोदयस्त्रीरतिदानदूतीं भजन् समस्तेष्वसुमत्सु मैत्रीम् । जराजनुर्मृत्युभियां निदानं त्यज़न् शरीरेऽपि ममत्वमुच्चैः ॥ ३४॥ भुजाशुगर्तुद्विजराण्मितेऽब्दे श्रियां पदे भाद्रपदे च मासे । तिथौ तथा शङ्करसंमितायां सितद्युतेर्दीधितिबन्धुरायाम् ॥ ३५॥ विहाय नित्यं मलिनामिहत्यां ‘तनुं मनोज्ञां च सुपर्वयोनेः । गुरुर्गुणी ग्रामधुनीं विमुच्य नभोनदीं हंस इव प्रपेदे ॥ ३६ ॥ सुगन्धसारैर्घनसारमिश्रैः सकुङ्कुमैर्बन्धुरगन्धधूल्या । युतैश्च धूपैरभिरूपरूपै श्चतुःसमैर्मञ्जुलमौक्तिकैश्च ॥ ३७॥ ससौरभैः पेशलपुष्पपुञ्जै र्मुहुर्मुहुः काञ्चनरूप्यरूपैः । तदा च तादृग् वपुरार्यभर्तुः सदर्चमानर्च समस्तसंघः ॥ ३८ ॥ १६५
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy