SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ . गुरोर्वचस्तच्छिरसा समस्तैः ... प्रतिश्रुतं माल्यमिवेद्धवर्णम् । सुखं प्रसूते दिविषद्गवीव . प्रपालिताऽऽज्ञा प्रसभं प्रभृणाम् ॥ २० ॥ तदाऽभिधायेति हितान्यमीषां वचांसि भूयांसि विभुः समेषाम् । उवाच संसारविकारकारस्करद्विपः सोऽनशनं विधित्सुः ॥ २१ ॥ अधीतनानाविधवाङ्मयानां • महामुनीनामिदमस्ति वर्त्म । विधीयतेऽभ्यागत आयुषोऽन्ते यदर्तिहन्ताऽनशनाधिकारः ॥ २२ ॥ इह क्षणे सांप्रतमन्धसां मे निरोध उच्चैः सुकृताभिबोधः । इतीरितं मे शृणुताऽऽश्रवा भो निराश्रवाः ! 'संयमिशर्वरीशाः ! ॥ २३ ॥ शिवात्मकृत्याय कृतोद्यमस्य भवन्तु विघ्ना मम मा भवन्तः । जगत्प्रमोदार्थमुपागतस्य . घनाघनस्येव मरुत्प्रवाहाः ॥ २४ ॥ . वचोभिरित्यद्भूतभेषजाभैः शनैः शनैः शुद्धरसायनज्ञः । गुरुर्भिषक् सौवपरिच्छदस्य कदाग्रहव्याधिमपाचकार ॥ २५ ॥ गुरुं निरीक्ष्याऽनशनक्रियायां ____सुमेरुचूलामिव धैर्यपात्रम् । COROLO[BOBOBO
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy