________________
सुपर्वशाखीव मनोऽभिलाषान्
प्रपूरयामास महाजनस्य ॥ १३ ॥
रुजं दुरन्तामधिगम्य सम्यक् तथाऽऽयुषोऽत्यन्तसुखस्य चान्तम् । प्रभुश्चकार प्रमनाश्चरित्र
गृहध्वजाराधनयाऽन्त्यकृत्यम् ॥ १४॥
व्यधाद् विभुः स्वं तपसाऽग्निनेव सुवर्णमात्मानमतीद्धभासम् ।
तदा बभौ चाऽस्तमलोऽस्य कायः खरत्विषो बिम्ब इवाऽभ्रमुक्तः ॥ १५॥
स सर्वथा क्षीणबलं विचिन्त्य
सितेतरे पक्ष इवोडुपं स्वम् । मुनीन् समंग्रान् गृहमेधिनंश्च . प्रभुः प्रभूताद्भुतधीरिमाऽवक् ॥ १६ ॥
अवश्यभाविन्यवसानकेऽस्मिन् न मेऽस्ति चिन्ता विहितात्मवृत्तेः ।
इदं भयं भेत्तुमलं निरन्त- ' बला अपि स्युर्न हि तीर्थनाथाः ॥ १७॥
अमुत्र सर्वत्र हितोद्यमानां
न कापि चिन्ता भवतामिहास्ति । प्रभुः स वः पट्टधरो मदीयो
महानुडूनामिव कौमुदीशः ॥ १८ ॥
भवद्भिराचार्य उदारधीरस्ततोऽभिगम्योऽहमिवाभिरूपैः ।
अनुप्लवानामयमस्ति पन्था - निषेव्यते यत् तनयः पितेव ॥ १९ ॥
१६२