SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ • पदे पदेऽतुच्छमहोत्सवौघां विभूषयन्नंहिरजोभिरुर्वीम् । जनं समग्रं सुखयन् मनोज्ञागमस्तडित्वानिव गोविलासैः ॥ ७॥ भयं सृजन् वादिनिशाचराणां स्वतेजसा पङ्कजिनीशितेव । पुरे पुरे श्रावकसंघमुच्चैः श्रियं नयन् सिन्धुमिवौषधीशः ॥ ८॥ स्फुरद्दशो दीप इवाऽङ्गभाजां हरंश्च मिथ्यात्वतमःसमूहम् । पथि स्मयं घ्नन् कुमतिव्रजानां महामृगाणामिव सिंहशावः ॥ ९॥ मलं दलन्नध्वनि दैवताध्व धुनीव सर्वज्ञमनोज्ञवृत्तिः । समूलमुत्तालमहार्यवीर्यः प्रकम्पयन् पापतरून् करीव ॥ १० ॥ मुदां निदानं गुरु गुर्जरत्रा - वधूललाटे तिलकायमानम् । श्रियां निधानं सुकृतप्रधानं प्रभुः क्रमात् पत्तनमाससाद ॥ ११ ॥ महोत्सवोत्साहसमुत्सुकस्या ऽनघस्य संघस्य सदादरस्य । वरं पुरं तद् गुरुणाऽऽग्रहेण कियद्दिनान् पट्टधरोऽतिष्ठौ ॥ १२ ॥ तपाधिराजः प्रभुहीरसूरिः पुरे वसन्नुन्नतनानि तत्र । १६१
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy