________________
चतुर्दशः सर्गः
अथो विशां भर्तुरकब्बरस्य मनः पयोजन्मविलासहंसः ।
ततः पुरादर्जितवर्यकीर्तिर्विहर्तुकामोऽजनि सूरिसिंहः
धराधिपं नीतिलतावितानपयोदमापृच्छ्य सदाऽऽदराढ्यम् । बुधं च नन्देर्विजयोत्तराह्वं. विमुच्य तत्राऽवनिपोपरोधात् ॥ २ ॥ .
जयेन्दिरासुन्दरदोर्लताभ्यां
निकामनिष्पीडितकण्ठपीठः ।
गुरुर्व्यहार्षीत् पुरतस्ततोऽथ कुपाक्षिकाम्भोदभिदासंमीरः ॥ ३॥
निजैः पदाम्भोजरजोभिरुच्चैः शुचिं सृजन् भूमिमिमामशेषाम् । गुरुः क्रमाच्छ्रीमहिमाभिधानं
पुरं पुरप्रष्ठमलञ्चकार ॥ ४॥
इतश्च भट्टारकहीरसूरेः
पुरोत्तमादुन्नतनामघेयात् ।
इयाय लेखो वपुषोऽसमाधे
१॥
रुदन्तवादी च हवात्मकश्च ॥ ५ ॥
ततः पुरादात्मगुरोः स पादद्वयीं दिदृक्षुर्नलिनीमिवाऽली ।
प्रदत्तखेदं तदुदन्तमेतं
विचिन्त्य चित्तेऽचलदार्यवर्यः ॥ ६ ॥
१६०