________________
भट्टारकेन्द्रो विजहार हीर: शत्रुञ्जयात् तीर्थवरात् ततोऽथ ॥ १३ ॥
मत्वा प्रभूताग्रहमुन्नताह्व
द्रङ्गस्थसंघस्य सदाऽनघस्य । हंसः शरत्कालमकालबर्हः क्ष्मायामिव स्मैति गुरुः स तत्र ॥ १४॥
ज्ञात्वा लाभमदभ्रमभ्रतटिनीरङ्गत्तरङ्गोल्लस
त्कीर्तिस्फूर्तिपयःप्रवाहपटलप्रक्षालनक्ष्मातलाः। ते भट्टारककोटिकोटिमुकुटाश्चक्रुश्चतुर्मासकं
तत् तत्रैव पुरे पुरन्दरपुरप्रख्ये सुपर्वप्रिये ॥ १५ ॥ अजस्रं दस्राभ्यामिव वरतरैर्वैद्यककरै
र्भिषग्भिर्भूयोभिः सततयतनैर्भेषजभरैः । विबुध्याऽसाध्यां स्वां रुजमिति निदानेन महता
द्वितीयां ज्येष्ठास्यां पुनरकृत तस्यां पुरि गुरुः ॥ १६॥
सरसि जलजस्तोमः सूर्यादिवोदर्यादिग्जुषो
वनभूवि तरुव्रातः सर्वोऽनिलादिव मालयात् । निवसतिकृतः कामं कम्रात् प्रसित्तभराद् गुरोः . समजनिं पुरे पौरस्तस्मिन् सुखी सकलोऽपि हि ॥ १७॥
१५९
5