SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ गङ्गाप्रवाहादपि यस्य वर्त्मपांसुप्रपञ्चोऽस्त्यधिकत्वशाली । योऽभूच्छवोल्लासकविप्रमोदश्रीपत्यदभ्रोत्सवमूलमुच्चैः ॥ ७ ॥ आरोहमार्गोऽत्र विभाति शैले आरोढुमुच्चैस्तरसिद्धिसंज्ञम् । सौधं धुताबाधमनाधिमाशु निश्रेणिसोपानपरम्परेव ॥ ८॥ तारोत्करैरिन्दुरिवातिसौम्यो भासां भरैरर्क इव प्रतापी । भूयोभिरागादृषिभिर्वृतः श्री सूरिस्ततस्तत्तलहट्टिकायाम् ॥ ९ ॥ दानैरमानैर्धनकाञ्चनानां गीतैः सुगीतैः कुलकामिनीनाम् । तूर्यैश्च वर्यैर्मुरजानकाद्यैः कुर्वद्भिरुत्साहकृदुत्सवालीम् ॥ १० ॥ मेवातसन्मालवमेदपाट श्रीगूर्जरत्रामरुमुख्यसंघैः । . सार्धं महस्वी मघवेव देवैरध्यारुरोहाऽद्रिमसौ मुनीशः ॥ ११ ॥ त्रिस्तत्रनाथं प्रथमं परीय नत्वा च नुत्वा च यथाप्रमोदम् । स्थित्वा पुनः कत्यपि वासराणि श्रीतीर्थसेवामसमां च कृत्वा ॥ १२॥ सौवर्णटङ्कादिभिरर्चितः श्री संघेन सद्भक्ति सहस्रसंख्यैः । १५८
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy