________________
वदन्निति क्षोणिपतिः पुरो गुरोरुपप्रदानेऽकृत डाबरं सरः ॥ ५८ ॥ नभोंऽशुनेवातिविभासुरं जगत् सदाऽमुना श्रीगुरुणेति जल्पता । अतिप्रभूताद्भूतमानदानतस्तदाऽयमुच्चैः सदकारि भूभुजा ॥ ५९ ॥ अथो चतुर्मासकमुल्लसत्सुखे फतेपुरे दत्तजयोत्सवे गुरुः । निरस्तमन्युर्गणभृद् महाव्रती हरः शिवाया मनसीव तस्थिवान् ॥ ६०॥ अरिधरणिपतिस्त्रीदृग्जलासार धारा-. निकरकरणवर्षोत्कर्षखङ्गाग्रधारे । लसति सति हमाउनन्दने राज्ञि तत्र स्थितिमकृत कृतर्द्धि ज्यायसी सूरिराजः ॥ ६१ ॥ . कमलकुवलयानां कोकधूकाङ्गनानामहिमहसि पूर्वे पर्वते प्राप्षीव । स्थितवति पुरि तस्यामोजसां धाम्नि सूरिधुसदि सदसतां द्राग् भूत्यभूती अभूताम् ॥ ६२ ॥ कारुण्याम्भोनिधिमधि पतच्चित्तवृत्त्यण्डजेन स्फुर्जनीतिस्मितनयनयाऽऽश्रिष्टवक्षःस्थलेन । नित्यं नीतो हृदयपदवीं श्रीहमाउसतेन द्रङ्गे तत्र स्थितिमधिगतो हीरसूरिः श्रिये वः ॥६३ ॥
CO2[4€ BOOOOO