________________
बभूव भूपः सुकृताभिलाषुको गुरुरिष्ठोऽप्यनिष्ट तन्मनाः ॥ ५२ 11
अथ प्रभूतप्रतिभाढ्यपण्डित— व्रतिव्रजालङ्कृतसंनिधिः सुधीः । अगच्छदत्यच्छमनाः स गच्छराड् धराधिभूधाम निकामवामदृक् ॥ ५३ ॥
जनाक्षिनीलोत्पलपङ्क्तिकान्तिकृद् दयोदधेः वृद्धिकरः कलानिधिः 1 सुरेण राज्ञा ददृशे प्रमोदकृत् स सप्ततिश्चन्द्र इवर्षिभिर्युतः ॥ ५४ ॥
सदस्सदुल्लासविलासकोविदै
र्वचोभिराचार्यसभाशिरोमणेः
गुरोर्मुदं प्रापदपापदृग् नृपः प्रसेनजित्सूनुरिवान्तिमाऽर्हतः ॥ ५५ ॥
गुरोर्गिराऽथावनिंजानिरब्जिनी
प्रियप्रमाहःफुरंमानपत्रकम्
समस्तजीवाभयदायि
दलीलिखत्ं खाखिलमण्डलेष्वपि ॥ ५६ ॥
अमूमुचद् गुप्तिगृहाच्च बन्दिनो विहङ्गवृन्दं दृढपञ्जरात् पुनः 1 निशानिबद्धान् मधुपानिवाऽम्बुजोदरादुदारोऽम्बुजिनीजनिः स्फुरन् ॥ ५७ ॥
1
१५५
तत्क्षणा
मदाधिपत्यं भुवि यावदस्त्यदो न हन्ति कोऽप्यत्र झषादिदेहिनः ।