________________
अभूद् निजे धामनि वाङ्मयं पुरा द्विधाऽऽत्म जैनं च यदैश्वरं च यत् । गुरोस्तदुर्वीपतिराश्चदर्शयद् वदन् वयो विनयाञ्चितं वचः ॥ ४० ॥
विदन्नदस्तद्गुरुराददे च नाधुनैतदादानमकीर्तिकारि नः 1 नृपो विशेषाद् मुमुदे निरीहतां निरीक्ष्य सूरेरतिशायिनीमिमाम् ॥ ४१ ॥
आगृह्य भूयोऽपि ददौ नृपस्तदा तद्भारतीगेहमिवापरं परम् अकब्बरीयाभिधया च कोशगं तत्पुस्तकं सर्वमचीकरद् गुरुः ॥ ४२ ॥
नृपेण दत्त्वा बहुमानमानमन्महीमहेन्द्रव्रजसेवितांहिणा 1 गुरुर्विसृष्टो निरगात् तदोकसः पयोधराभ्रादिव धर्मदीधितीः ॥ ४३ ॥
विलोक्य मेने नृपगोपुरे पुरः समेतमेतं गुरुमास्तिकैरिति 1 किमन्तिमार्हज्जनिराशितोऽद्य दुग्रहोऽवरूढः खलु भस्मनामकः ॥ ४४ ॥
धराधिपाज्ञागतभूरितूरसत्
स्वनैर्भवद्भिर्बधिरीकृताम्बरे ददद्भिरर्थिप्रकरेभ्य ईप्सितां
श्रियं महेम्यैरतिचारुचत्वरे ॥ ४५ ॥
महोत्सवे
गायनगीतगौरवे
प्रभूतपद्माढ्यमलञ्चकार तम् 1
१५३