________________
तदा गुरोर्दर्शनतोऽतिशायिनीं मुदं समीयुर्वसुधासुधाञ्जनात् ॥ ३३ 11
तदा च तेषां क्षितिपात्मजन्मनां गुरुस्त्रयाणामपि पुण्यतेजसाम् । वृषाशिषं द्राग् व्यतरद् हुतिं हवि - र्भुजां द्विजन्मेव महःप्रदायिनीम् ॥ ३४ ॥
चारित्रमाहारविहारसंलया
श्रयोपवासासनपानगोचरम् अथ स्वयं प्रेषितपूरुषाननाद् निशम्य सुरेर्मुमुदे महीपतिः ॥ ३५ ॥
अथैकतः संयमिलोकनायकौ स्थितौ व्यभानामभितः प्रकाशकौ । विधेर्वशात् संगमितौ क्षमाधरौ सुरारिजिच्छैलहिमालयाविव
॥ ३६ ॥
धर्मिणौ
विशारदव्रातव्रतस्य गुरोः पुरःस्थः स्थिरदृक् स्थिरेश्वरः । अपृच्छदच्छं परमात्मनः प्रभोः स्वरूपमास्तिक्यसमं सविस्तरम् ॥ ३७ ॥
पुरातनाचार्यवरैर्निरूपितं
न्यरूपि पूज्यैस्तदशेषमुत्तमम् । पिबन् श्रुतिभ्यां तदतुष्यदुर्वरापतिश्च वीणाक्वणितं फणीव सः ॥ ३८ ॥
निशम्य सम्यक् प्रविचार्य चात्मना यथास्थितं तन्मुदमाप भूपतिः । मनःसुखामुक्तिमवाप्य धीमतां न कस्य हर्षः खलु जायतेतमाम् ? ॥ ३९ ॥
१५२