________________
विधाय पूर्वं मिलनं महीभुजा प्रतिश्रये नः प्रतिगन्तुमर्हति ॥ २७ ॥
समर्थनिर्ग्रन्थगृहस्थसार्थसत्
I
परिच्छदोपासितपादपङ्कजाः विचार्य चित्तान्तरिति व्रतीश्वरा
अकब्बरोर्वीश्वरसौधमभ्यगुः ॥ २८ ॥
इमं
समायान्तमदभ्रविभ्रमं
त्रयोदशर्षिप्रमुखैर्वृतं गुरुम् 1 अकब्बर: प्रेक्ष्य मुदं दधौतमां शिखीवपाथोमुचमुन्नतं दिवि ॥ २९ ॥
नृपोऽभिगच्छन्ं सुमनोमनोरमो भाति स्म साक्षादिव वासवस्तदा । विधाय सुस्वागतमागतोचितं मुदाऽनमस्यच्च गुरोः पदद्वयीम् ॥ ३० ॥
अजय्यचेतोजतमोभवान्तकृद्
वृषाङ्कवैकुण्ठविरञ्चिसन्निभः
नृपाय कल्याणलतापयोमुचा तदाऽभ्यनन्दत् सुकृताशिषा गुरुः ॥ ३१ ॥
योऽप्यथ स्वात्मभुवो भुवोमिलल्ललाटपट्टाः सुखिताखिलप्रजाः । तदेरिताः क्ष्मापतिना गुरूत्तमान् हिमोष्णवर्षासमया इवाऽनमन् ॥ ३२ ॥
त्रयोऽपि शेखूप्रमुखानृपाङ्गजास्त्रिलोकलोका इव पुण्यवृत्तयः ।
१५१