________________
पदे पदे सत्त्वर संमुखागतै । र्धराधिपैः सूत्रितसुन्दरादराः । पदे पदे प्राप्तघनार्थसंचयैः सदर्थिभिगीतमनोज्ञगीतयः ॥ २१ ॥ रजोभिरंयुच्छलितैर्भुवस्तलं . . विभूषयन्तो घुसदामपि प्रियैः । . महाव्रतिप्रीतिकलैर्जलैर्नभ:- .. ... सरित्प्रवाहा इव विश्वपावनाः ॥ २२ ॥ सदा समुल्लासभृतः सुपर्वभि- ... स्तापं हरन्तो जगतां गुरूत्तमाः ।। क्रमादलञ्चक्रुर भङ्ग वैभवः । फतेपुरश्रीत्रिपुरारिमस्तकम् ॥ २३ ॥ अथाङ्कहव्याशनभूपवत्सरे त्रयोदशीवासर इन्दुवर्जिते । । शक्रे च मासे त्रिजगन्मनःसुखप्रदे प्रभाते त्रिदशेशमन्त्रिणि ॥ २४ ॥ दधत्सु शृङ्गारिसुहासिनीजनप्रणीतगीतैरतिमेदुरां मुदम् । ददत्सु दानं धनकाञ्चनाऽम्बरोर्मिकातुरङ्गद्विपमुख्यवस्तुनः ॥ २५ ॥ दुकूलदिव्याम्बररत्नकाञ्चना- . द्यलकृतिस्तोममनोज्ञमूर्तिषु । जनेषु कुर्वत्सु महोत्सवान् बहून्... पुरे प्रवेशं विदधुर्दमीश्वराः ॥ २६ ॥ विपक्षसंपत्तटिनीपयोधिना नयाम्बुजोल्लाससहस्ररश्मिना ।
* १५०