________________
- नवमः सर्गः तदा मुदा तत्पदपद्मषट्पदोऽतिमेतखान: शुभगीरदोऽवदत् । इहाऽस्ति शस्ताकृतिराप्तवाग् व्रती महामतिीर इति व्रतिप्रभुः ॥ १५ ॥ स एव देवाऽम्बुजबन्धुवच्छुभाऽशुभाध्वनोस्त्वत्प्रिययो: प्रकाशकः । स . चाधुना क्वेत्युदितेऽथ शाहिना स शाहिमाह स्म पुनः पटिष्ठवाक् ॥ १६ ॥ पयोजिनी हंस इवाऽच्छपक्षभाक् स गूर्जरत्रामधुनाऽधितिष्ठति । निशम्य तद्वाचमदम्भजृम्भितां मुदं दधौ शाहिरहार्यधर्मधीः ॥ १७ ॥ वितीर्य · पत्रं फुरमानसंज्ञकं समानमाह्वानकृते कृती गुरोः । घनादरेणाऽऽत्मजनान् स मेवडाभिधानथ स्म प्रहिणोति भूपतिः ॥ १८ ॥ जातावतारा जगतां हिताय ते . . मुनीश्वराः कल्पितकल्पपादपाः । हवं नरेशस्य निशम्य सादरं तदाऽभवंस्तत्र विहर्तुमुत्सुकाः ॥ १९ ॥ पदे पदे प्रौढमहोत्सवोत्सुकैजनैः प्रदत्ताद्भुतमानसंपदः । पदे पदे स्वस्तिकमुक्तमौक्तिकै
र्वधूजनैर्मण्डितमङ्गलालयः ॥ २० ॥ BIOTECX DOOOO