________________
अब्देऽथ शुद्धे धिष्ण्याध्वधिष्ण्येशर्तुधरामिते । दशम्यां सहसो मासो विशदद्युतिसंपदि ॥ १३३॥
कर्के हौ शनौ कुम्भे सौम्यमार्त्तण्डयोरलौ । गुरौ भृगौ च कन्यायां मीने कुमुदिनीपतौ ॥ १३४॥ अंशैश्च बलिभिः सर्वैर्धनुर्लग्ने समङ्गले । अष्टादशभिरदुष्टे दोषैर्वेधादिभिर्दिने ॥ १३५॥ पुरे शिवपुरीनाम्नि महोत्सवमनोहरे I सङ्गते सङ्घसङ्घातेऽनर्घे मञ्जुमनोरथे ॥ १३६॥ हर्षेण हीरहर्षाणां वाचकानां गणाधिपाः । गच्छैश्वर्यं तरोर्बीजमिवाचार्यपदं ददुः ॥ १३७॥
वशक्रियाया जगतां मूलमन्त्रमिवानघम् । नामापि हीरविजय इत्येषां गुरवो व्यधुः ॥ १३८॥ इदं सूरिपदं प्राप्य तेजसामेकमास्पदम् । दिदीपेऽधिकमाचार्यो मध्याह्नमिव भास्करः ॥ १३९॥ सुरिश्व युवराजश्व द्वावेतौ सदृशक्रमौ I गच्छचिन्तां वहतः स्माऽनोधुरां वृषभाविव ॥ १४० ॥ अंभूद् दिप्तिमतोः शश्वत् सूरीशयुवराजयोः । गच्छे तेजोऽद्भुतं व्योम्नि सूर्याचन्द्रमसोरिव ॥ १४१ ॥
क्रमात् कुङ्कणदेशोर्वीमुखमण्डनमुत्तमम् । भूषवन्ति स्म ते सूरिसूराः सूरतिबन्दिरम् ॥ १४२ ॥ असमकुसुमे ताम्राक्षाणामिवाम्रतरौ व सरसि सरसे रोलम्बानामिवाम्बुरुहे स्मिते । इह निवसतां पुण्याशानामशेषमही स्पृशां स्थितवति गुरौ तुङ्गेऽजनिष्ट सुखं महत् ॥ १४३ ॥ चतुर्थः सर्गः समाप्तः ॥
१४७