SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीनारदपुरीनाम्नि पुरेऽत्युत्सवसुन्दरे । .. वरकाणाभिधानश्रीपार्श्वतीर्थेशसाक्षिकम् ॥ १२१ ।। चैत्ये श्रीनेमिनाथस्य सनाथस्याऽद्भूतश्रिया । सम्यक् संमतिमादाय साधूनां गच्छवासिनाम् ॥ १२२ ॥ उपाध्यायपदेऽस्थापि हीरहर्षः स सूरिभिः । स्थानेऽङ्कर इवाचार्यपदर्द्धिवरवीरुधः ॥ १२३ ॥ शुशुभे श्रीतपागच्छस्तेन वाचकचक्रिणा । काननं कुञ्जरेणेव दानवारिविराजिना ॥ १२४॥ आधिपत्यं गणस्यास्य भविता दीप्तिमत्तमम् ।... श्रीहीरहर्षोपाध्याये वज्रिणीव दिवः सदा ॥ १२५॥ . ध्यात्वेति सूरयः सूरिमन्त्राराधनमुत्तमम् । विधिना साधु सीरोहीनगरे चक्रिरेऽन्यदा ॥ १२६ ॥ अथाऽऽसूत् सूरिमन्त्रस्याधिष्ठायकसुरः पुरः । प्रत्यक्षः प्रेष्यवत् प्रोच्चैः प्रमनाः सूरिहस्तिनाम् ॥ १२७ ॥ वाचको हीरहर्षाख्य आख्यातः शमिनां गुणैः । स्वस्मिन् पट्टे प्रभो स्थाप्यः प्रतिबिम्ब इवात्मनः ॥ १२८ ॥ इत्युक्त्वा पूजयित्वा च मौक्तिकैरक्षतैरिव । यथागतं सुपर्वाऽयमभ्यागत इवागमत् ॥ १२९ ॥ वचनेनाऽमुना धैर्यवर्या आचार्यपुङ्गवाः । कृषीवला इवाऽम्भोदगर्जितेन मुदं दधुः ॥ १३०॥ अहो! वचनमेतस्य दैवतस्य महात्मनः । अर्थ उक्तेरिव मदाशयस्याऽव्यभिचार्यभूत् ॥ १३१ ॥ चिन्तयित्वेति चित्तान्तश्चिरं सूरिपुरन्दरैः । पृष्टाः प्रोचुर्यथाकाममिति सर्वेऽपि साधवः ॥ १३२ ॥ 2 [exe 3
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy