SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तत्र त्रिजगतां पूज्यैः पूज्यपादैरलंकृताम् । श्रीनारदपुरीं प्रौढप्रासादं प्राप स प्रभुः ॥ ११० ॥ भणित्वाऽष्टोत्तरं नव्यकाव्यानां शतमग्रतः 1 ललाट्टपट्टसङ्घट्टिकोटीरायितपाणिना ॥ १११ ॥ `साक्षात् पुंरूपया वाचामधिदेवतयेव ते 1 हीरहर्षेण हर्षेण गुरवोऽथ ववन्दिरे ॥ ११२ ॥ परिपूर्णकलं पुत्रं प्रेक्ष्याऽमी सूरिशेखराः । उल्लसन्ति स्म शीतांशुमिव वारिधिवीचयः ॥ ११३॥ तत्रैव नगरे वर्षे सप्तव्योमर्तुभूमिते । शुभेऽहि ललिते लग्ने प्रासादे वृषभप्रभोः ॥ ११४॥ 1 सत्यङ्कारमिवाचार्यपंदप्रकटसंपदाम् विद्वत्पदं पदं कीर्त्तेर्गुरवो ददिरेऽस्य ते ॥ ११५॥ तत् पण्डितपदं हीरहर्षे विदुषि धीजुषि । सुवर्णे हीरवद् रेजे सार्द्धषोडशवर्णिके ॥ ११६॥ अथानघेन संघेन श्रीनारदपुरीपुरः 1 : पुनर्विज्ञपयांचक्रे तपागच्छाधिभूर्विभुः ॥ ११७॥ विदुषां हीरहर्षाणामुपाध्यायपदं प्रभो ! । संघाशावल्लिविस्तारवारिदानां प्रदीयताम् ॥ ११८॥ पुण्याहूतंनिजाकूताऽव्यभिचारिणि चारुणि । सङ्घस्य वचनेऽमुष्मिन् सूरेश्चित्तममोदत ॥ ११९॥ संवत्सरेऽथ पृथ्वीभ्रसुराध्वरसशीतगौ 1 माघे मास्यमृतज्योतिःपञ्चमे पञ्चमे तिथौ ॥ १२०॥ १४५
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy