________________
सोऽप्रमत्तः पपौ सर्वं शास्त्रं स्वं स्वगुरोः सुधीः । . . . ग्रीष्मतप्तो भुवां भाग इवाऽब्दानिपतत् पयः ॥ ९८ ॥ हीरहर्षमसंहर्षमात्तात्मसमवाङ्मयम् । गुरुर्गुरुमिवाऽऽलोक्य दध्यावित्यन्यदाह्वदि ॥ ९९ ॥ स्वकीयं परकीयं च योऽधीते वाङ्मयं सुधीः । आविष्कर्ताशुमालीव स स्यात् सदसतोः पथोः । १०० ॥ हीरहर्षगणिनूनं शैवदर्शनशास्रवित् । यदि जायेत तत् साधु यदसौ बहुबुद्धिभृत् ॥ १०१ ॥ ध्यात्वेति प्रेरितः सम्यक् शिष्योऽसौ सूरिपुङ्गवैः। . अगस्त्याध्यासितदिशो देशे गन्तुमना अभूत् ॥ १०२॥ श्रीधर्मसागरगणिप्रमुखैश्च महर्षिभिः । ... युतश्चतुर्भिर्दानाद्यैर्भेदैर्धर्म इंवाऽङ्गवान् ॥ १०३॥ विजहर हीरहर्षः सहर्षस्तत्र . नीवृति । नभःकूलङ्कषाकूले कलहंस इवाऽमलः ॥ १०४॥ त देवगिरौ. देवगिराविव महोन्नते । पञ्चर्षयस्तेऽस्थुयेष्ठस्थिति देवद्रुमा इव ॥ १०५ ॥ प्रतिबिम्बमिवाद” चिन्तामण्यादि वाङ्मयम् । सर्वं तद्धृदि संक्रान्तं जाह्ववीजलनिर्मले ॥ १०६ ॥ अधीत्य शैवशास्त्रं तत् तत्राऽयं निखिलं खलु । गूर्जरत्रामगाद् वार्धा लात्वा नीरमिवाऽम्बुदः ॥ १०७॥ स्वकीयपरकीयाभ्यां शास्त्राभ्यां शास्त्रवित्तमः । अधीताभ्यामभाद् द्वाभ्यां स दोर्ष्यामिव शूरराट् ॥ १०८ ॥ गुरूनथ मरौ मत्वा हीरहर्षगणिर्गुणी । जगाम तत्र स्वर्वापीप्रवाह इव पावनः ॥ १०९॥
१४४१ND