SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ भूषितैर्दन्तिभिर्देवदन्ताबलैरिवोद्धुरैः 1 पुरन्दरपुरायितम् 11 2011 सोत्साहैरुत्सवैरेवं पत्तनं पावयन् प्रोच्चैः पीयूषसदृशा दृशा । सविस्मयं स्मिताक्षीभिर्गवाक्षस्थाभिरीक्षितः ॥ ८८ ॥ 1 सामोदकुसुमस्तोमचामरच्छत्रराजितः मौक्तिकैः काञ्चनै रात्नैरलङ्करैरलङ्कृतः ॥ ८९ ॥ सारसिन्दूरपूरेण बन्धुरे सिन्धुरे स्थितः I कुङ्कुमैश्चन्दनैश्चोक्षैश्चर्चितश्चारुचीरभृत् 11 3011 स्फारशृङ्गारया सारं रथमास्थितया पथि । अनुगम्यमानः स्वस्रा विमलाईतिसंज्ञया ॥ ९१॥ शोभितः सुमनोवृन्दैः सुरेन्द्र इव मूर्त्तिमान् । सोऽन्तर्नगरमुल्लासी निर्जगाम शनैः शनैः ॥९२॥ विक्रमाद् “रसनन्देषुद्विजेशे परिवत्सरे 1 बाहुलस्य बहुलायां द्वितीयायां शुभेऽहनि ॥ ९३॥ असौ श्रीविजयदानसूरिसिन्धुरसंनिधौ 1 पर्यणैषीत् परिव्रज्यापत्नीं पद्मामिवाच्युतः ॥ ९४॥ सहर्षं हीरहर्षाह्वो मुनिर्गुणमहोदधिः I कलभः कुञ्जरेणेव व्यहार्षीद् गुरुणा समम् ॥ ९५॥ महाव्रतानि पञ्चापि पञ्चापि समितीः पुनः । गुप्तस्तिस्रश्च स मुनिः पालयामास यत्नतः ॥ ९६॥ सेवमानों गुरुं देवोद्यानं विबुधसेवितम् । विनयामरसालस्य फलं विद्यां स लेभिवान् ॥ ९७॥ १४३
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy