________________
परिणीयाऽधुना तेन वधूं देववधूपमाम् । भुङ्क्ष्व भोगांस्तया सौम्य समं रत्येव मन्मथः ॥ ७६ ॥
ममाधारोऽसि वत्स ! त्वं लताया इव भूरुहः । भ्राता हि सुखकृत् स्त्रीणां कृषीणामिव वारिमुक् ॥ ७७॥
इत्याग्रहरुजं तस्या वैराग्यवचनौषधैः स कुमारोऽगदङ्कार इव सद्यो निराकरीत् ॥ ७८ ॥ अथोपाश्रयमागत्य नत्वा च मुनिसंत्तमान् । हीरजीर्व्याजहारैवं हारिणं विनयं वहन् ॥ ७९ ॥
तपस्यामहमादित्सुरस्मि क्लेशविनाशिनीम् । भगवन्! भवदभ्यर्णे कूपे पाथ इवाऽध्वगः ॥ ८० ॥ तस्येति वचसाऽऽचार्यवर्या. मुमुदिरेतराम् । शिष्यरत्नस्य लब्धौ हि हर्ष उत्कर्षभाग् भवेत् ॥ ८१ ॥
निरीक्ष्य शस्तैः सामुद्रैर्लक्षितं लक्षणैरिमम् । गणेन्द्रैर्निरणायीति भाव्ययं गच्छधूर्वहः ॥ ८२ ॥
सज्जितस्फारशृङ्गारैरस्वत्रैरिव नागरैः | गीतैश्च मङ्गलोल्लासैः स्त्रीणामप्सरसामिव ॥ ८३॥ विमानैरिव सदनैः सूत्रितोत्तुङ्गतोरणैः वर्त्मना नन्दनेनेवाऽऽनन्दिना पुष्पपडक्तिभिः ॥ ८४ ॥
देवद्रुमैरिवात्यन्तोदारैर्दत्तधनैर्जनैः गायद्भिर्मधुरं देवगायनैरिव गायनैः
परैश्च पोषितैर्नानाभोजनैरमृतैरिव
वर्यतूर्यस्वरैर्दैवदुन्दुभिस्तनितैरिव
१४२
1
11.6411
I
॥ ८६ ॥
Cl