SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ तेन दानान्यदीयन्ताऽर्थिनां सार्थे यथार्थनम् । पाथोमुचेवोच्चैरापश्चातकपोतके ॥ ५४ ॥ प्राज्याः सकर्णा अभणन् कर्णानन्दिनो बन्दिनस्तदा । किं क्रीडाक्रीडकाश्यप्यां मञ्जु गुञ्जन्ति नालयः ? ॥ ५५ ॥ तदाऽभुर्घुसृणैर्न्यस्ता हस्तकाः शस्तकारिणः -। . बालार्का उत्सवं द्रष्टुं बहुरूपैरिवागताः ॥ ५६ ॥ रेजेऽजिरे तदा न्यस्तो मौक्तिकस्वस्तिकोत्करः । गाम्भीर्याद् मामयं बालो जेतेत्यब्धेरिवोपदा ॥ ५७ ॥ ढौकितानि पुरीलोकैः प्राविशंस्तद्गृहे तदा । प्रोच्चैः पूर्णानि पात्राणि मुंदां बीजैरिवाऽक्षतैः ॥ ५८ कम्राम्रपत्रैः क्लृप्ताऽभात् तत्रोच्चैस्तौरणी ततिः । सौरभ्याद् मामयं जेता सूनुरिष्योपदेति किम् ? ॥ ५९॥ इत्युत्सवैर्मुदां मूलैर्भूरि भाति स्म तत्पुरम् । राजधानी . सुखोत्कर्षहर्षक्षोणिपतेरिव ॥ ६० ॥ स्वप्नान्तर्ददृशेऽम्बया I हीरराशिर्यदुत्तुङ्गः हीरस्तद् भविताऽर्भोऽयं विश्वमानवमौलिषु ॥ ६१ ॥ इति मत्वा पिताऽतुच्छमहोत्सवपुरस्सरम् । हीरजीति व्यधात् सूनोर्नाम धाम गुणश्रियाम् ॥ ६२ ॥ कल्पद्रुरिव रम्भाभिर्लाल्यमानः पुरन्ध्रिभिः । कुमारः कलयामास कलभिर्वृद्धिमिन्दुवत् ॥ ६३॥ स जहौ क्रमतः क्षीरकण्ठतां शठतामिव । ललौ च गुरुतो विद्या वार्द्धेरप इवाम्बुदः ॥ ६४॥ १४० "
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy