SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रभावात्तस्य गर्भस्य सोच्चैर्वाल्लभ्यभुरभुत् । शाखेव सहकारस्य फलानां परिपाकतः ॥ ४३ ॥ श्रीसंदर्भस्य गर्भस्याऽनुभावात्तस्य दोहदाः । बभूवुः सुभगास्तस्याः शस्याभ्युदयहेतवः ॥ ४४ ॥ जननी जननीतिज्ञा सद्यः सम्पूर्णदोहदा । प्रमोदं प्राप सा प्राप्तस्वर्णसिद्धिरिवाऽधिकम् ॥ ४५ ॥ अथो वर्षे शक्तिसिद्धिशिलीमुखसितत्विषि । मासे संहसि शीतोस्राऽनवमे नवमे तिथौ ॥ ४६ ॥ शुभेऽहनि कलाकेलिकुलं कुवलयप्रियम् । पूर्णिमेवैन्दवं बिम्बं साऽसूत सुतमुत्तमम् ॥ ४७॥ तदाऽभूद्दीपकोद्घोतस्तिरस्तस्य तनुत्विषा । यत्तारातेजसां स्तोमः किं स्यादभ्युद्गते रवौ ? ॥ ४८॥ अनुकूलं मुदां मूलं श्रुत्वा जन्माऽङ्गजन्मनः । श्रेष्ठयमोदिष्ट सः स्पष्टविष्टपैश्वर्यभागिव ॥ ४९॥ 1 अमन्दानन्दकन्दस्य ं स्थानस्योल्लासवीरुधः • अत्यर्थसुभगस्याङ्गजन्मनो जन्मशंसिनाम् ॥ ५० ॥ • यच्छन् सोऽतुच्छधीर्वर्द्धापनिका नान्तरं व्यधात् । वर्षंस्तोयधरस्तोयं किं भवेद्भेदभाग् भुवाम् ? ॥ ५१ ॥ महान् महो महेभ्येन तेनाऽऽरब्धो मुदब्धिना । यज्जनौं तादृशां पुंसामुत्सवानामतुच्छता ॥ ५२॥ मञ्जु मङ्गलगीतानि गीयन्ते स्म तदोकसि । न वसन्तोत्सवे किं स्युः कोकिलानां कलोक्तयः ? en १३९ ॥ ५३॥
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy