SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सदोदाराऽब्धिपुत्रीव रम्भेव च वृषादरा । . . . पद्मिनीव सदामोदा हरीणामपि या मुदे ॥ ३२ ॥ पङ्केरुहं जडोल्लासि दोषोल्लासी सुधाकरः । . यन्मुखेन समे नेमे मतिमद्गुणपोषिणा ॥ ३३ ॥ मौक्तिकस्वर्णरत्नानां नूलालङ्कृतयोऽपि हि । . प्रत्युतालक्रियन्ते स्म यच्छरीररुचां भरैः ॥ ३४॥ सीता कुशीलतासारा शश्वजडा सुरापगा । . . . यस्या नेत्यनयोः साम्यं शीलकौशलसम्पदः ॥ ३५ ॥ कुरङ्गत्वरजोयुक्त्वप्रोन्मादित्वकलङ्किषु । । न यल्लोचनतुल्यत्वं सारङ्गाम्भोजसीधुषु ॥ ३६॥ . सिंहः कटिर्गतिर्हस्ती मुखं चन्द्रो दृगम्बुजम् । नामूनि कलहायन्ते मिथो वैरेऽपि यत्तनौ ॥ ३७॥ सा भुङ्क्ते स्म भवानीव कौमुदीकान्तशालिना । सार्द्धं स्वप्राणनाथेन नाथी सांसारिकं सुखम् ॥ ३८॥ कुंराख्यश्रेष्ठिनः पत्नी सुखसुप्ताऽथा साऽन्यदा । बिभर्ति स्मोत्तमं गर्भमभ्रमालेव वारिदम् ॥ ३९॥ सुरशैलमिवोत्तुङ्गं भास्वन्तमिव भासुरम् । हीरराशिं तदैवाशु सा स्वप्नान्तरुदैक्षत ॥ ४० ॥ पद्मिनीव प्रबुद्धा सा प्रातः प्रोत्फुल्ललोचना । तं स्वप्नं पुरतः पत्युः प्रोवाचाऽऽभोदमेदुरा ॥ ४१ ॥ मुक्तेव शुक्तौ तत्कुक्षौ गरभो ववृधेऽथ सः । . बिभ्रती साऽशुभद् गर्भं तं निधानमिवाऽवनिः ॥ ४२ ॥ DIMOT१३८LL
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy