SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तत्पुण्यतः प्रनष्टेऽस्मिन् दुष्टे कुष्ठे क्षणाद् नृपः । लब्धलावण्यलीलादिः पुनर्जात इवाऽभवत् ॥ २१॥ प्रत्यहं मौक्तिकानीव ढौक्यन्ते चाऽक्षताक्षताः । प्रह्लादनविहारेऽस्मिन् मूढकप्रमिता जनैः ॥ २२ ॥ जनानां मुञ्चतां पुगीफलान्यस्मिन् जिनौकसि । बीजानीव स्वभावद्रोर्मणान्यासंश्च षोडश ॥ २३ ॥ यत्रेति वचनैरभ्यागतं प्रणयिनं प्रजाः I सुखयामासुरानन्दकन्दकन्दलनाम्बुदैः ॥ २४॥ तत्र कुंराभिधः श्रेष्ठी श्रेष्ठधीः शिष्टशेखरः । महेश इव संजातः सर्वदा सर्वमङ्गलः ॥ २५॥ निष्कलङ्कं समालोक्य साक्षाद् यं यस्य वेश्मनि । श्रीश्चलत्वकलङ्कं स्वं माटुकामेव तस्थुषी ॥ २६॥ पुमर्थत्वेन धर्मार्थकामेषु सदृशेष्वपि · I संजघ्नतुः सङ्गतौ द्वौ यद्धर्मं नार्थमन्मथौ ॥ २७ ॥ . धर्मो धत्ते ध्रुवं पुंसामर्थकामौ निषेवितः । ध्यात्वेति धीमता येन धर्म एवाऽऽदृतः सदा ॥ २८ ॥ दानं दीनार्थिपात्रेषु नित्यं येनाऽपि यच्छता । बह्वमन्यन्त पात्राणि पयोदेनेव बर्हिणः ॥ २९॥ ब्रह्मवत्सु गृहस्थेषु यस्य श्रेष्ठिशिरोमणेः । रेखा सुदर्शनस्येव प्रथमा प्रथमाकृतेः ॥ ३०॥ उल्लसद्भाग्यसौभाग्या लावण्यजलदीर्घिका । नाथी तस्याऽभवद् भार्या लक्ष्मीर्लक्ष्मीपतेरिव ॥ ३१॥ १३७
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy