________________
श्रीधर्मसागरउपाध्यायरचित
प्रवचनपरीक्षागत
श्रीहीरविजयसूरिसंदर्भः तस्सवि पयंमि विहिणा एगीकाऊण सोमसूरे अ । घडिओ उभयसहावो तेणं सिरिहीरविजयगुरु ॥ ५॥ संपइ तं जुगपवरं पणमित्ता पणयभावभावण्णं । .
सघंमि अ जिअलोए लोअंतं नेहनयणेहिं ॥ ६॥ तस्यापि-श्रीविजयदानसूरेरपि ‘पयंमि'पदे श्रीहीरविजयसूरिः विधिनाविधात्रा घटितो-निष्पादितः, किं कृत्वा ? -सोमसूरौ-चन्द्रभास्करावेकीकृत्योभयस्वभावो घटितः, अयं भावः चन्द्रसूर्योपमितयोः प्रागुक्तसूर्योर्गुणान् समुदायीकृत्योभयस्वभावो घटित इत्यर्थः, तेनैव कारणेन श्रीहीरविजयगुरुरिति नामा, हीति दुःखहेतुर्विरहिजनस्य शोककारणं, इ:-कांमो यस्मात् स ही:-चंद्रो रवि:सूर्यस्तयोर्जयो यस्य सः, तयोर्जेतेत्यर्थः, स चासौ गुरुश्चेति, श्रिया युक्तस्तथा श्रीहीरविजयगुरुः एवंविधं गुरुं प्रणम्य, किंलक्षणं,?-प्रणयस्य भावः-उत्पत्तिर्यस्मात् स प्रणयभावो भावनिर्देशात् स्नेहहेतुत्वमापन्नं-प्राप्तं, समस्तलोकवल्लभमित्यर्थः, किं कुर्वन्तं ?-स्नेहलोचनाभ्यां-सस्नेहनयनाभ्यां लोकान् पश्यन्तं, करुणैकरसार्द्रलोचनावलोकनशीलमिति गाथायुग्मार्थः ॥ ५-६॥ .
393I393 [ta?] INITION