________________
गुरुः प्राह–'यद्दिवसें दुर्गग्रहणेछा तव स्यात्, तत्समये गृह्यते, परं त्वत्सैन्यं सर्वं स्कंधावारेऽवस्थाप्यं, आवां द्वावेव व्रजावः, परं पुरांतर्बहिश्च कस्यापि केनापि हिंसा न विधेया।' ततः पटहोद्घोषेण हिंसां सर्वत्र निवार्य प्रभाते द्वावेव दुर्गसमीपमीयतुः । सर्वे निंदका ऊचुः–'असौ कापुरुषोऽकब्बरं शत्रुहस्ते समर्पयिष्यति।' ततो वाचकेनैकया फूत्कृत्या सर्ववप्रखातिका रजःपूर्णीकृता, द्वितीयया शत्रुसैन्यं स्तंभितं, तृतीयया च गोपुराणि फूल्लिका इव स्फुटितानि । ततः साहि: सोत्साहं साश्चर्यं च पुरे स्वाज्ञामखंडां चकारेति। 'हे पूज्य ! मम किंचिदनुग्रहं विधाय समादिश' तदा वाचकेंद्रेण १४ कोटीद्रव्यस्थानकं राज्ञः प्रतिवर्षं जीजीयाकरमोचनं याचितं, सपादसेरचटकजिह्वाभक्षणं त्वया न कार्य, सुवर्णटंकैकशत्रुजयकरमोचनं याचितं, पाण्मासिकामारिप्रवर्तनं च, तथा हि-श्रीमत्साहिजन्मसंबंधिमासः, श्रीपर्दूषणापर्वसत्कानि १२ दिनानि, सर्वे रविवाराः, सर्वसंक्रांतितिथयः, नवरोजसत्को मासः, सर्वे इदवासराः, सर्वे मिहरवासराः, सोफिआनवासराश्चेति षाण्मासिकामारिसत्कं फुरमानं' इत्यादिफुरमानानि च श्रीसाहिपार्थात्समानीय श्रीगुरूणां प्राभृतीकृतानि वाचकेंद्रेणेति ।
39
.3182233232