________________
चित्रलिखित इव त्वं भवसि ?' इति निर्बंधेन पृष्टः सर्वं ज्ञातं स्माह । तदा साहिनोदितं - 'किमत्र चित्रं, स तु द्वितीयो विश्वेशोऽस्ति ।'
प्रगे धर्म श्रावणार्थं सभामध्ये वाचकेंद्र: कांचनपादपीठोपरि समे स्थितः । ततो भूपः प्रणम्येति व्यजिज्ञपत् – 'हे पूज्य ! किमप्याश्चर्यमस्माकं दर्शय । ' सोऽप्याह——कल्ये गुलाबपुष्पारामे त्वया गंतव्यं । ' प्रगे साहिस्तत्र गतः, वाचकेंद्रोऽपि तत्रागात् । द्वौ परस्परं धर्मगोष्ठीं तनुतः, तावत्साहिनोबतगर्ज्जरवो जातः, सहसा तदाकर्ण्य चकितः स्वसेवकान् पप्रछ– 'अस्मदाज्ञां विना कस्यापि ठक्कारवो द्वादशगव्यूतिमध्ये न जायते, पश्यत यूयं । ततस्ते विलोक्य साधिपं प्राहु- 'हे साधिप ! युष्मत्पिता हुमायुः स सचमूस्तव मिलनाय समेति' इति कथनानंतरमेव समेत्य पुत्रं परिरभ्य च स्थितः सर्वेषामकबरसैनिकानां मेवामिष्टान्नभृतरजतपात्राणि ददौ । साहिं प्रति महत्सन्मानं दत्वा यथागतस्तथा ययौ, क्षणेनादृश्योऽभूच्च । साहिः साश्चर्यं दध्यौ—‘नेदं तांत्रिकं, यतोऽस्मदादिसमर्पितवस्तूनीमानि प्रत्यक्षं दृश्यंते, अतो नूनमिदं वेष्टितं गुरुणा निर्मितं ।' ततो गुरवे नत्वा स्तुतिं चकार ।
अथैकदा साहिरटकदेशेशजयनार्थं ३२ क्रोशमितप्रयाणमकरोत् । तदा साहिना स्वभृत्येन सभागतजनान्वेषणां नामग्राहपूर्वं कारितं तन्मध्ये वाचकचंद्रस्यापि नाम श्रुत्वा दध्यौ 'अहो वाहनोपानदादि विनाऽमी महदुःखं प्राप्ता अभविष्यन् ।' ततस्तदाकारणाय स्वोपजीविनः प्राहिणोत् । ते तं प्राहुः - ' त्वां साहिराकारयति । ' तदा वाचकेंद्रावस्येदृशी जातास्ति – सोफयुक्तयरणत्वात्पदमात्रमप्यग्रे चलनाक्षमाः, टौप्परकस्थितप्रासुकजलेन वस्त्रांचलमाद्रीकृत्य स्वोरसि स्थापितमस्ति, द्वौ शिष्यौ वैयावृत्यं कुरुतः । ततः सेवकैरेतत्स्वरूपं सर्वं नृपाय निवेदितं । तदा साहिः सुखासनं प्रैषयत्, तदा स एकां काउवल्लिकामानाय्य तदुपर्यारुरोह, स्वशिष्यौ काष्ठप्रांतौ स्कंधे न्यस्य चलितौ । साहिस्तथावस्थं तमागच्छन्त वीक्ष्य दध्यौ - 'अहो गुरुवाक्यभक्ता धन्या इमे ये मदनुयायिनः संति, अन्यथा मदभ्यर्णे न काप्येषां प्राप्तिः, अहो क्षमा श्रमणानांक्षमा।' ततः साहिरभिमुखीभूय तत्पादयुग्मं चक्षुर्भ्यां प्रस्पर्श प्रोवाच च‘स्वामिन् ! अतःपरं मत्कृते महत्प्रयाणं युष्माभिर्न विधेयं, शनैः शनैः पश्चात्समेतव्यं ।' ततः क्रमेण साहिरटकदेशाधिपपुरं परिवेष्ट्य स्थितः द्वादश वर्षाणि जातानि परं तद्वप्रो न स्वायत्तोऽभूत् ।
एकदा साहिपुरो म्लेच्छा अन्ये च प्राहुः - ' त्वं प्रत्यहं कापुरुषश्वेतपटसंगं करोषि तेनायं दुग्र्गे दुर्ग्रहोऽनुमीयते ।' तद्वृत्तं भूपेन तस्मै वाचकेंद्राय ज्ञापितं ।
GN
१३०