________________
वैमलीयवसतिं व्रतीशिता, दुग्धसिन्धुवयसीमिवैक्षत ।
श्वेतदन्तितुरगान्वितां सुधाशालिनी जिनपावत्रिताम्बराम् ॥ १॥ ततो वस्तुपालवसतेश्चैत्यं ननाम । यतः
तं रैवतोर्वीधरवत्पवित्रीचिकीर्षयेवार्बुदमभ्युपेतम् ।।
निरीक्ष्य तस्मिन्नयनाभिरामं, ननाम शैवेयजिनं यतीन्द्रः ॥ १॥ चौलुक्यचैत्यं विधृतामृतश्री, धर्मप्रपास्थानमिवैष मार्गे । नत्वा मुनीन्द्रोऽचलदुर्गमध्ये, चतुर्मुखे(खं) नाभिसुतं व्यनंसीत् ॥
ततो राणपुरे नलिनीगुल्माकारं धरणासाहेन कारितं चैत्यं ननाम । यतःचातुर्गतीयार्त्तिमहान्धकूपोद्दिधीर्षया शेषशरीरभाजाम् ।। मूर्तीश्चतस्रः कलयन्निवास्मिन्, मुनीन्दुनाऽदर्शि युगादिदेवः ॥ १॥
ततो मेडतानगरे श्रीफलवर्धिपार्श्वदेवं प्रणेमिवान्, श्रूयते हि तबिम्बपार्श्वेऽपरा कापि जिनप्रतिमा स्थातुं न शक्यते, अतश्चैकाक्येव तिष्ठति । यतः
एकोऽहमेव त्रिजगज्जनानां, पिपर्मि कामानपरानपेक्षः । इति स्मयावेशवशादिवान्तः, परानपास्य स्थित एक एव ॥ १॥
तथा च फलवर्धिपार्श्वनाथद्वारि कपाटौ न तिष्ठतः, कदाचित्कश्चिदानी-य योजयति तदा प्रभाते प्रासादात्क्रोशद्वयोपरि पतितौ. दृश्येते न द्वारि स्थिताविति। तत्र श्रीजिनं नत्वा श्रीसूरिः क्रमेण . फतेपुरसमीपे आययौ । तत्र थानसिंहः साहिसेवकस्तथाऽमीपालोऽपि साहे: प्रतिदिनं नालिकेरढौकनकृत्, (ताभ्यां) तथा मानुमुखसङ्घमुख्यैः साहेः सूरेरागमनामभाष्यत । ततो नृपाज्ञां प्राप्य श्रीसङ्घाः प्रौद्वैर्महोत्सवैः फतेपुरस्य (रात्) साहिराजधान्या: शाखापुरं प्रापयन् (सूरिं) ॥ ततः श्रीसाहेगुरुणा शेषे खे)ण सह प्रथमं सूरिधर्मगोष्ठी व्यतनोत् । तद्गतमानससंशयं दूरीकृत्य श्रीभूपसमीपमेत्य बहुमानादरपूर्वमनेकप्रश्नोत्तरान् विधाय यमनियमजिनतीर्थादिस्वरूपं प्रकाश्य श्रीदयाधर्मवासितं भूपमानसं विहितवान् । ततो भूप: श्रीचित्रशालिकामध्ये श्रीगुरुं निनाय । अथ भूपः सोपानत्रिकेणैवोर्ध्वभूमिमाश्रित्य गुरुमाह- "हे व्रतीश्वर! मत्सभा भूमेराच्छादनं क्रमाम्बुजैः पवित्रीकुरु ।"
गुरुर्जगादेति कदापि कीटिका, भवदधोऽस्मिन्न पदं दधे ततः ।
नृपोऽभ्यधादत्र न कश्चनासुमान्, भवेत्सुराणामिव मन्दिरे नरः ॥ १॥ DEZE [8P4 DOWN