________________
विभवैः सह माधवादयः प्रतिवर्षं यमुपेत्य भेजिरे । किमिदं गदितुं तनूमतां, मरुतामप्ययमेव देवता ॥ २॥ . इह जीवत आदिमप्रभोरपि सोपारकनामपत्तने । प्रतिमा प्रतिभासते सतां, वृषकोषः प्रकट: किमार्षभेः ॥ ३॥
तद्देशे देवगिरिद्रङ्गे विप्रपार्श्वे तर्कशास्त्रादिकं पठित्वा गुरुसमीपमाययौ । गुरुणा वाचकपदं दत्तम् । ततः श्रीसूरिमन्त्रदेवताज्ञया सूरिपदं दत्तंसं० १६१० वर्षे पौषशुक्लपञ्चमीदिने । ततः श्रीगुरुः पृथ्व्यां विहरति स्म...
इतश्चाकबरसभायामनेकजातिसंकुलायां निजनिजधर्मवर्णनं प्रसृतम् । तन्मध्ये एकेन विदुषा पुरुषेण श्रीहीरगुरोर्वर्णनं कृतम्-. . .
अस्माभिरीशितरदृश्यत दर्शनेषु, सर्वेषु शेखर इवाखिल धार्मिकाणाम् । एकः स हीरविजयाभिधसूरिराजः क्ष्मापालपङ्क्तिषु भवानिव भूमिपीठे ॥ १॥
___ इत्यादिसभ्यजनवर्णितसूरिंगुणश्रवणान्तरं दत्तविज्ञप्तिस्फुरमानकरौ द्वौ दूतौ लाटदेशस्थगन्धारबन्दिरेऽकबर: प्राहिणोत् । तौ दूतो सङ्घसेवितपादाम्बुजानां श्रीगुरूणां पाणिपद्मं तत्स्फुरमानं ददतुः । तदा श्राद्धैर्विज्ञप्तिः कृता
प्रदेशीव केशिवतिक्षोणिशकैरसौ बौधनीयो नृपः पूज्यपादैः ।। महान्तो हि विश्वोपकृत्यै यतन्ते, धनाः किं न सर्वं जगज्जीवयन्ति ॥ १॥ प्रणिनन् वने व्याधवनैकसत्त्वानसत्त्वीकृताशेषविद्धेषिवर्गः । ततो हेमचन्द्रेण चौलुक्यभूमानिवासौ त्वयाऽकब्बरो बोधनीयः ॥ २॥
ततः श्रीगुरुर्विहारं कुर्वन् राजद्रङ्गसमीपं समागात् । श्रीसाहिबखानेन द्रधिपेन बह्वादरभक्त्या स्वराजधाम्नि समानीय गुरोः. पुरो हयगजरथमणिशिबिकादयो ढौकिताः, तदनु स व्यजिज्ञपत्–“हे स्वामिन् ! अकबरसाहिवाक्यतोऽहं ढौकयामि, त्वं गृहाण । यतः- .
साहिश्रीमदकब्बरावनिभुजेत्यादिष्टमास्ते मम, द्युम्नस्यन्दनवाजिवारणमुखं संपूर्य तत्कामितम् । श्रीसूरीश्वरहीरहीरविजयं संप्रापयेस्त्वं मया, न्यासं स्वीयमिवाद्रियस्व तदिदं विश्राण्यमानं मया ॥ १॥
सूरिः स्माह-"वयमकिञ्चना नित्यमनुपानत्पादचारिण एवार्हाः" ततः सरिर्विहरन अर्बुदाचलमाययौ । यतःBLADD१२४PROMORRONE