________________
तत्रापि च स्फूर्तिमियर्त्यपूर्वां, श्रीस्थम्भने स्थम्भनपार्श्वदेवः । व्यध्वंसि धन्वन्तरिणेव येन, कुष्ठोपतापोऽभयदेवसूरेः ॥ १॥
इत्याद्यनेकपुण्यस्थानोपेते देशे श्रीप्रह्लादनपुरं समस्ति । तत्र ऊकेशवंशी कुरासाहनामा महेभ्यः, तस्य नाथीतिनाम्नी पत्नी, तया गजस्वमसूचितः पुत्रो हीरकुमारः सं० १५८३ मार्गशीर्षसितनवम्यां प्रतो वृद्धि प्राप्तः । क्रमेणान्यदा श्रीदानसूरिमुखतो देशनामित्यशृणोत्
सान्ध्यराग इव जीवितमास्त, यौवनं च सरितामिव वेगः । यत्क्षणेव कमला क्षणिकेयं, तत्त्वरध्वमनिशं जिनधर्मे ॥ १ ॥
अथ स मातृपितृस्वर्गमनानन्तरं विमलाह्वभगिनीपार्श्व दीक्षादेशममार्गयत् । भगिनी प्राह-"त्वं वार्धके संयमं कुर्वीथाः
त्वद्वधूमुखसुधांशुसुधायाः, पानमुत्सुकतया प्रविधित्सू ।
मद्विलोचनचकोरशकुन्तौ, चापलं रचयतश्चिरमेतौ ॥ १॥" कुमारः प्राह
जीवितं कुशशिखास्थमिवाम्भः, पांसुलेव तरला कमलाऽपि । ऐक्षवाग्रमिव यौवत(न)मेतत्, प्रेक्षणक्षण इव स्वजनोऽपि ॥ १॥ यद्गमिष्यति ममार्भकभावोऽलङ्करिष्यति तनुं च युवश्रीः ।
वार्धकं पुनरमात्यमिव स्वं, भूषयिष्यति क इत्यवगच्छेत् ॥ २॥ .. इत्याद्यनेकपरस्परोक्तिभिः श्रान्ता भगिन्याद्या दीक्षादेशं ददुः । ततः सं० १५९६ वर्षे कार्तिककृष्णद्वितीयायां हीरकुमारो दीक्षां ललौ । हीरहर्ष इति नाम दत्तम् । गुरुपार्श्वे पठन् स्वसमयज्ञो जातः । परदेशभाषापरशास्त्रज्ञातुकामो दक्षिणदेशं प्रति ययौ । तद्देशे श्रीमाणिक्यनाथो नाभेयोऽस्ति । श्रीअन्तरिक्षपार्श्वदेवो वर्तते । यत:- .. .
अपि पार्श्वजिनोऽन्तरिक्षकाभिध उच्चैःस्थितिकैतवादिह ।।
किमु लम्भयितुं महोदयं, भविनां भूवलयात् प्रचेलिवान् ॥ १ ॥ तथा च
करहेटकपार्श्वनायको, दिशि यत्रास्ति पुनः प्रभाववान् । न जहाति कदापि यत्पदं, किमु तस्यैव समीहया फणी ॥ १॥ MLOD१२३MMOD