SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ । १२ श्रीविजयलक्ष्मीसूरिरचित उपदेशप्रासादान्तर्गत हीरविजयसूरि संदर्भ ॥ व्याख्यानम् - ३५८ ॥ अथ हीरगुरोर्वर्णनमाह अभूत्पट्टे तस्यास्खलितविजयो हीरविजयो, गुरुर्वृन्दारौधप्रथितमहिमाऽत्रापि समये । सुरत्राणो बुद्धो ह्यकबरनृपो यस्य वचसा, .. घृणाध्यानं ध्यायन् व्यतनुत महीमार्हतमयीम् ॥ २५ ॥ . ॥ व्याख्यानम्-३५९ ॥ अथ श्रीहीरसूरेः किञ्चित्संबन्धोऽयं लिख्यते वैराग्यपूर्णहृदयाः, त्यक्तमूर्छा जगृहुश्चारित्रम् । सुहितसाधुप्रभवः, श्रीहीरविजयसूरीन्द्राः ॥ १॥ स्पष्टः । ज्ञातं चेदम् श्रीगुर्जरदेशे तारंगगिरिप्रमुखतीर्थानि वर्तन्ते । यत्तुङ्गतारङ्गगिरौ गिरीशशैलोपमे कोटिशिला समस्ति । स्वयंवरोर्वीव शिवाम्बुजाक्षीपाणिग्रहे कोटीमुनीश्वराणाम् ॥ १ ॥ अपि च देशे पुनस्तत्र समस्ति शंखेश्वरोऽन्तिकस्थायुकनागनाथः । धात्रा धरित्र्यां जगदिष्टसिद्धयै, मेरोरिवादाय सुरद्रुरुप्तः ॥ १ ॥ विद्याधरेन्द्रौ विनमिर्नमिश्च, यत्बिम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि बिडौजसा यत्स्वधाम्न एव स्पृहयेव सिद्धेः ॥ २ ॥ इति हीरसौभाग्यकाव्ये । इन्द्रेणोज्जयन्तशृङ्गे मुक्तम् । ततः स्वौकसि चन्द्रार्कावार्चयेताम् । ताभ्यां पुनर्गिरिनारशृङ्गे स्थापितम् । ततो धरणेन्द्रेण स्वधाम्न्यानीतम् । ततः श्रीनेमिवचसा कृष्णेनानीतम् ।। ON[??? BOBOBO
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy