________________
अस्मिन् दिल्लीदेशविहारे श्रीमद्गुरूणां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवीक्षणतश्र्वानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशनजीवहिंसनादिरतिं परित्यज्य सद्धर्मकर्मासक्तमतयः, तथा केचन प्रवचनप्रत्यनीका अपि निर्भरभक्तिरतयः अन्यपक्षीया अपि कक्षीकृतसद्भूतोद्भूतगुणततयश्वाऽऽसन्। इत्याद्यनेकेऽवदाताः षड्दर्शनप्रतीता एव।
- तथा श्रीपत्तननगरे चतुर्मासककरणादनु विक्रमतः षट्चत्वारिंशदधिकषोडशशत १६४६. वर्षे स्तम्भतीर्थे स तेजपालकारिता सहस्रशो रुप्यकव्ययादिनाऽतीवश्रेष्ठां प्रतिष्ठां विधाय श्रीजिनसासनोन्नतिं तन्वाना श्रीसूरिराजो विजयन्ते ॥ १९॥
MPTOM ११९| ORIPTION