________________
तदवसरे च संजातगुरुतरगुरुभक्तिरागेण मेडतीय स सदारंगेण मार्गणगणेभ्यो मूर्तिमदगजदानद्विपञ्चाशदऽश्वदानलक्षप्रासादविधानादिना, दिल्लीदेशे श्राद्धानां प्रतिगृहं सेरद्वयप्रमाणेखण्डलम्भनिकानिर्माणादिना च श्रीजिनशासनोन्नतिश्चक्रे। तथैका प्रतिष्ठा सा० थानसिंघकारिता। अपरा च सा० दूजणमल्लकारिता श्रीफतेपुरनगरेऽनेकटङ्कलक्षव्ययादिना महामहोत्सवोपेता विहिता। किञ्च.... प्रथमचातुर्मासकमागराख्यद्रङ्गे, द्वितीयं फतेपुरे, तृतीयमभिरामाबादे, चतुर्थं पुनरप्यागराख्ये चेति चतुर्मासीचतुष्टयं तत्र देशे कृत्वा गूर्जरदेशस्थ श्रीविजयसेनप्रभृतिसंघस्याऽऽग्रहवशात् श्रीगुरुचरणा धरित्रीपवित्रीकरणप्रवणान्तःकरणाः श्रीशेषूजी-श्रीपाढूजी-श्रीदानीआराऽभिधपुत्रादिप्रवरपरिकराणां श्रीमत्साहिपुरन्दराणां पार्श्वे फुरमानादिकार्यकरणतत्परानुपाध्यायश्रीशान्तिचंद्रगणिवरान् मुक्त्वा, मेडतादिमार्गे विहारं कुर्वाणा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे समागताः। तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाथादिबिम्बानाम्, श्रीअजितजिनप्रासादे श्रीअजितजिनादिबिम्बानां च क्रमेण प्रतिष्ठाद्वयं विधाय अर्बुदाचले यात्रार्थं प्रस्थिताः, तत्र विधिना यात्रां विधाय यावद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायश्रीसुलतानजीवन सीरोहीदेशे पुरा कराऽतिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारणं च करिष्यामीत्यादिविज्ञप्तिस्वप्रधानपुरुषमुखेन विधाय. श्रीगुरवः सीरोह्यां चतुर्मासीकरणायाऽत्याग्रहात् समाकारिताः। पश्चात् तद्राजोपरोधेन, तद्देशीयलोकानुकम्पया च तत्र चतुर्मासी विधाय क्रमेण रोहसरोतरमार्गे विहारं कुर्वन्त: श्रीपत्तननगरं पावितवन्तः। अथ पुरा श्रीसरिराजैः श्रीसाहिहृदया-ऽऽलवालरोपिता कृपालतोपाध्यायश्रीशान्तिचंद्रगणिभिः स्वोपज्ञकृपारसकोशाख्य-श्रावणजलेन सिक्ता सती वृद्धिमती बभूव। तदभिज्ञानं च श्रीमत्साहिजन्म-सम्बन्धी मासः, श्रीपर्युषणापर्वसत्कानि द्वाद्वशदिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसत्को मासः, सर्वे ईदवासराः, सर्वे मिहरवासराः, सोफीआनकवासराश्चेति षाण्मासिकामारिसत्कफुरमानं, जीजीआभिधानकरमोचनसत्कानि फुरमानानि च श्रीमत्साहिपार्थात् समानीय धरित्रीदेशे श्रीगुरूणां प्राभृतीकृतानीति। एतच्च सर्वजनप्रतीतमेव। तत्र नवरोजादिवासराणां व्यक्तिस्तत्फुरमानतोऽवसेया। किञ्च, RLD११८OMMOD