________________
तस्मिन् वर्षे आगराख्यनगरे चतुर्मासककरणान्तरं सुरीपुरे श्रीमानयात्राकृते समागतैः श्रीगुरुभिः पुरातनयोः श्रीऋषभदेव - नेमिनाथसम्बन्धिन्योर्महत्योः प्रतिमयोस्तदानीमेव निर्मित श्रीनेमिजिनपादुकायाश्च प्रतिष्ठा कृता । तदनु आगराख्यनगरे सा० मानसिंहकल्याणमल्लकारितश्रीचिन्तामणिपार्श्वनाथादिबिम्बानां प्रतिष्ठा शतशः सुवर्णटङ्कव्ययादिना महामहेन निर्मिता । तत्तीर्थं च प्रथितप्रभावं सञ्जातमस्ति ।
ततः श्रीगुरवः पुनरपि फतेपुरनगरे समागत्य श्रीसाहिना साकं मिलिताः । तदवसरे च प्रहरं यावद्धर्मप्रवृतिकरणानन्तरं श्रीसाहिरवदत् यत् श्रीमन्तो मया दर्शनोत्कण्ठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते । तेनाऽस्मत्सकाशात् श्रीमद्भिः सवित्तं याचनीयं येन वयं कृतार्था भवामः । तत् सम्यग् विचार्य श्रीगुरुभिस्तदीयाऽखिलदेशेषु पर्युषणापर्वसत्काऽष्टाह्निकायाममारिप्रवर्तनं बन्दिजनमोचनं चाऽयाचि, ततो निर्लोभताशान्तताद्यतिशयितिगुणगणातिचमत्कृचेतसा श्रीसाहिना अस्मदीयान्यपि चत्वारि दिनानि समधिकानि भवन्त्विति कथयित्वा स्ववशीतकृतदेशेषु श्रावणबहुलदशमीतः प्रारभ्य भाद्रपदशुक्लषष्ठीं यावदमारिप्रवर्तनाय द्वादशदिनामरिसत्कानि काञ्चनरचनाञ्चितानि स्वनामाङ्कितानि षट् फुरमानानि त्वरितमेव श्रीगुरूणां समर्पितानि । तेषां व्यक्ति :- प्रथमं गूर्जरदेशीयं, द्वितीयं मालवदेशसत्कं तृतीयं अजमेरदेशीयं चतुर्थं दिल्लीफतेपुरदेशसम्बन्धि, पञ्चमं लाहुरमुलतानमण्डलसत्कम्, श्रीगुरूणां पार्श्वे रक्षणाय षष्ठं देशपञ्चकसम्बन्धि साधारणं चेति। तेषां तु तत्तद्देशेषु प्रेषणेनाऽमारिपटहोद्घोषणवारिणा सिक्ता सतो पुराऽज्ञायमाननामाऽपि कृपावल्ली सर्वत्राऽऽर्याऽनार्यकुलमण्डपेषु विस्तारवती बभूव ।
·
तथा बुन्दिजनमोचनस्याऽप्यङ्गीकारपुरस्सरं श्रीगुरूणां पार्श्वादुत्थाय तदैवाऽनेकगव्यूतमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्षं स्वहस्तेन नानाजातीयानां देशान्तरीयजनप्राभृतीकृतानां पक्षिणां मोचनं चक्रे । तथा प्रभाते कारागारस्थबहुजनानां बन्धनभञ्जनमप्यकारि। एवमनेकशः श्रीमत्साहेर्मिलनेन श्रीगुरूणां घरित्रीमरुमण्डलादिषु श्रीजिनप्रासादोपाश्रयाणामुपद्रवनिवारणायानेकफुरमानविधापनादिना प्रवचनप्रभावनादिप्रभावो यो लाभोऽभवत् स केन वर्णयितुम् शक्यते ? ।
११७