________________
किञ्च । येषामशेषसंविग्नसूरिशेखराणामुपदेशात् सहस्रशो गजानां लक्षशो गूर्जर - मालव-विहार-अयोध्या- प्रयाग-1 ग-फतेहपुर-दिल्ली-लाहुर
वाजिनां मुलतान - क्याबिल - अजमेर-बङ्गालाद्यभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाऽधीश्वरो महाराजाधिराजशिरः शेखरः पातिसाहि श्रीअकब्बरनरपति: 'स्वकीयाऽखिलदेशेषु षाण्मासिकाऽमारिप्रवर्तनं जीजयाऽभिधानकरमोचनं च विधाय सकललोकेषु जाग्रत्प्रभावभवनं श्रीमज्जिनशासनं जनितवान् । तद् व्यतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः । समासतस्त्वेवम् ।
एकदा कदाचित् प्रधानपुरुषाणां मुखवार्त्तया श्रीमद्गुरूणां निरुपमशमदमसंवेगवैराग्यादिगुणगणश्रवणतश्चमत्कृतचेतसा पातिसाहि - श्री अकब्बरेण स्वनामाङ्कितं फुरंमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबंदिरात् दिल्लीदेशे आगराख्यनगरासन श्रीफतेपुरनगरे दर्शनकृते समाकारिताः सन्तोऽनेक भव्यजनक्षेत्रेषु बोधिबीजं वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचत्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्ठबहुलंत्रयोदशीदिने तत्र संप्राप्ता: । तदानीमेव च तदीयप्रधानशिरोमणि - शेष (ख) श्रीअबलफंजलाख्यद्वारा उपाध्याय श्रीविमलहर्षगणिप्रभृत्यनेकमुनिनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना सादरं स्वागतादि पृष्ट्वा स्वकीयास्थानमण्डपे समुपवेश्य च परमेश्वरस्वरूपं, धर्मस्वरूपं च कीदृशं कथं च परमेश्वरः प्राप्यत इत्यादि धर्मगोचरो विचारः प्रष्टृमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराऽष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतस्वरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगराद्रङ्गतोऽजमेरनगरं यावदध्वनि प्रतिकोशं कूपिकोपेतमनारान्विधाय स्वकीयाखेटककलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्रागहिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सञ्जातः ।
ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोक्तम्- यत् पुत्रकलत्रधनस्वजनदेहादिषु निरीहेभ्यः श्रीमद्भ्यो हिरण्यादिदानं न युक्तिमत् । अतो अस्मदीयमन्दिरे पुरातनं जैन सिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावद्धर्मगोष्ठीं विधाय श्रीमत्साहिना समनुज्ञाताः श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः । ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सञ्जाता।
११६
ele