________________
श्री धर्मसागरउपाध्यायरचित तपागच्छपट्टावलीगत
श्रीहीरविजयसूरिसंदर्भः
सिरिहीरविजयसूरि ५८, संपइ तवगणदिणिंदसमा ॥ १९ ॥
५८ अडवण्णेत्ति, श्रीविजयदानसूरिपट्टेऽष्टपञ्चाशत्तमाः श्रीहीरविजयसूरयः । किं विशिष्टाः ? संप्रति तपागच्छे आदित्यसदृशास्तदुद्योतकत्वात् । तेषां विक्रमतः त्र्यशीत्यधिके पश्चदशशतवर्षे १५८३ मार्गशीर्षशुक्लनवमीदिने प्रह्लादनपुरवास्तव्यऊकेंशज्ञातीय सा० कुंराभार्यानाथीगृहे जन्म, षण्णवत्यधिके १५९६ कार्तिकबहुलद्वितीयायां २ पत्तननगरे दीक्षा, सप्ताऽधिके षोडशशतवर्षे १६०७ नारदपुर्यां श्रीऋषभदेवप्रासादे. पण्डितपदम् । अष्टाधिके १६०८ माघशुक्लपञ्चमीदिने नारदपुर्यां श्रीवरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम्। दशाधिके १६१० सीरोहीनगरे सूरिपदम् ॥
तथा येषां सौभाग्यवैराग्यनि:स्पृहतादिगुणश्रेणेरेकमपि गुणं वचोगोचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्य श्रद्धालुभिः टङ्कानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटङ्करूप्यनाणकमोचनं पुरतश्च मुक्ताफलादिभिः स्वस्तिकरचनं प्रायस्तदुपरि च रौप्यकनाणकमोचनं चेत्यादि संप्रत्यपि प्रत्यक्षसिद्धम् ॥
यैश्च सीरोह्यां श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्यामनेकानि जिनबिम्बानि प्रतिष्ठितानि । तथा स्तम्भतीर्थाऽहम्मदावादपत्तननगरदौ अनेकटङ्कलक्षव्ययप्रकृष्टाभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिंबानि प्रतिष्ठितानि । येषां च विहारादौ युगप्रधांनसमानाऽतिशया: प्रत्यक्षसिद्धा एव ॥
"
तथाऽहम्मदावादनगरे लुङ्कामताऽधिपतिः ऋषिमेघजीनामा स्वकीयमताऽऽधिपत्यं “ दुर्गतिहेतु” रिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपातिसाहि - श्री अकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोजसेवापरायणो जातः । एतादृशं च न कस्याऽप्याऽऽचार्यस्य श्रुतपूर्वम् ।
११५