________________
११
अज्ञातकर्तृक पट्टावल्यन्तर्गत हीरविजयसूरिसंदर्भः
श्रीविजयदानसूरिपट्टे अष्टपंचाशत्तमः श्रीहीरविजयसूरिः । तस्य सं. १५८८३ वर्षे श्रीप्रह्लादपुरवास्तव्यउकेशज्ञातीयसाः कुंराभार्या नाथीगृहे जन्म। सं. १५९६ वर्षे कार्तिकवदि २ दिने श्री पाटणनगरे दीक्षा । सं. १६०२ वर्षे नारदपुर्यां पंडितपदं । सं. १६०८ वर्षे माघसुदिपंचमीदिने नारदपुर्यां वाचकपदं । सं. १६१० वर्षे सीरोहीनगरे सूरिपदं । तथा यैरनेकनगरेषु सहस्रशो बिम्बानि प्रतिष्ठितानि तथा अहम्मदावादनगरे ऋषिमेघजीनामा स्वमतं परित्यज्य पंचविंशतिमुनिभिः सह श्रीगुरुचरणकमलसेवापरो जातः ।
तथा श्रीगुरवः पातिसाहि श्री अकब्बरेण स्वनामाङ्कितं फुरमानं प्रेष्य गंधारबंदिरात् श्रीआगरानगरासन्नफतेपुरनगरे समाहूता: संतो विहारं कुर्वन्तः क्रमेण सं. १६३९ वर्षे ज्येष्ठवदि१३ दिने 'तत्र संप्राप्ताः, श्रीसाहिना समं मिलिताः, साधिकप्रहरं यावत्तत्र धर्मगोष्ठी कृत्वां श्रीसाहिना अनुज्ञाताः संतो महताडम्बरेणोपाश्रये समागताः । तदानीं सकलोपि लोकः श्रीहीरविजयसूरिसेवापरो जातः ।
तस्मिन् वर्षे आगरानगरे चतुर्मासकं कृतं तदनु श्रीगुरुभिः श्रीसोरीपुरयात्रां च कृत्वा आगरानगरे सा. मानसिंह - कल्याणमल्लकारित श्रीचिन्तामणिपार्श्वनाथबिम्बं प्रतिष्ठितं । पुनरपि फत्तेपुरनगरे समागत्य श्रीसूरयः पातिसाहिना साकं मिलिताः । तदवसरे धर्मवार्त्तया रञ्जिताः । पातिसाहि: द्वादशदिवसामारिसत्कं फुरमानं स्वनामाङ्कितं श्रीगुरूणां दत्तवान् । तदा च श्रीजिनधर्मोन्नतिर्महती जाता । तदवसरे च सा. मेडतीय सदारङ्गेण याचकेभ्यो मूर्त्तिमद्गजदान द्विपञ्चाशदश्वदानादि दिल्लीमण्डले श्राद्धानां प्रतिगृहसेरद्वयप्रमाणखंडलं भविकाकरणादिना च श्रीगुरूणां प्रतिष्ठा महती संजाता ।
तथा प्रथमं चतुर्मासकं श्रीआगरानगरे, द्वितीयं फत्तेपुरे, तृतीयं अभिरामावादे, चतुर्थं पुनरपि श्रीआगरानगरे एवं चतुर्मासकचतुष्टयं तत्र देशे
१२०
le
روان