________________
यन्मदीयं प्रदत्तं न गृह्णासि किमपि प्रभो । मच्छ्काशाच्च तेन त्वमुचितं प्रार्थयाधुना ॥ ९६॥
९७
सुकृतार्थः कृतार्थश्च भवानिव भवानि व । सर्वथा न वृथा सूरे यतस्वात्र यथा तथा ॥ ९७ ॥ हे सूरे यथा येन प्रकारेण भवानिव भवद्वत् सुकृतार्थः सुकृतं पुण्यमेवार्थः प्रयोजनं यस्य स तथा । चः समुच्चये कृतार्थः कृतः सर्वप्रयोजनो भवानि व तथा तेन प्रकारेण यतस्व यतनं कुरु । अत्र अस्मिन् वाक्ये अस्यां विज्ञप्तौ सर्वथा सर्वैः प्रकारैर्न वृथा न कूट मित्यर्थः । अत्र वकारोऽव्ययं पादपूरणे, अव्ययानामनेकार्थत्वात् । यथा भवान् सुकृतार्थः पुण्यार्थी मां प्रतिबोध्य कृतार्थ: तथा अहमपि भवदुचितं भवन्मार्गितं कृत्वा सुकृतार्थः कृतार्थश्च भवानीत्यभिप्रायः । ततः सूरीश्वरश्चित्ते विचिन्त्यैवं तमब्रवीत् । सर्वविश्वम्भराधीशशिरश्चडामणीयितम् ॥ ९८ ॥
—
विश्वम्भरायां सर्वेषु तव देशेषु सर्वदा । श्रीमत्पर्युषणापर्वाष्टाह्निकायां महीपते ॥ ९९ ॥
प्रवर्तनममारेश्च बन्दिलोकस्य मोचनम् । विधेहीति ततः साहिरिति चित्ते चमत्कृतः ॥ १००॥
अहो निर्लोभतैतस्य शान्तता च दयालुता । अकिञ्चनोऽपि किञ्चिन्न मामयाचीद् धनादि येत् ॥ १०१ ॥
श्रीसाहिराह चत्वारो दिवसा अधिका मम । उपरिष्टात्त्वदुक्तस्य भवन्तु सुकृतश्रियै ॥ १०२ ॥
हृद्यं सद्य इति प्रोद्य साहिरुत्साहपूरितः । द्वादशदिवसामारि - फुरमानानि षट् तदा ॥ १०३॥
काञ्चनरचनाञ्जि स्वीयनामाङ्कितानि च । त्वरितं लेखयित्वैव प्रददौ सद्गुरोः करे ॥ १०४॥
११२
Ok Locke