SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्वीयसाधितदेशेषु सर्वेषु वसुधातले । श्रावणवदिपंक्षस्य प्रारभ्य दशमीदिनात् ॥ १०५॥ मासि भाद्रपदे शुक्लषष्ठी यावन्न कश्चन । जीवव्यापादनं कुर्यादिति तेषु व्यलेखयत् ॥ १०६॥ एषां व्यक्ति पुनश्चैवं शृण्वन्तु श्रावका इमाम् । पूर्वं गूर्जरदेशस्य, द्वितीयं मालवस्य हि ॥ १०७॥ तृतीयमजमेरस्य, फुरमानं मनोहरम् । दिल्लीफत्तेपुराख्यस्य, देशस्य तु चतुर्थकम् ॥ १०८॥ लाहोरमुलतानाख्यदेशस्य खलु पञ्चमम् । एतानि पञ्चदेशेषु,. पञ्चसु प्रेषणाय हि ॥ १०९॥ देशपञ्चकसम्बन्धि षष्ठं । श्रेष्ठावलोकनम् । सकाशे सूरिराजस्य रक्षणाय चिराय हि ॥ ११०॥ -चतुर्भिः कलापकम् तत्तद्देशेषु पञ्चानां तेषां द्राक् प्रेषणेन च । 'अमारिपटहोद्घोषमेघोऽवर्षत्तरां वरः ॥ १११॥ अज्ञायमाननामातः कृपावल्ली महीतले । आर्यानार्यकुलोल्लासिमण्डपेष्वैधताऽचिरात् ॥ ११२॥ मोचनं बन्दिजन्तूनामङ्गीकृत्य गुरूदितम् । श्रीसाहिः सूरिराजस्य पाझंदुत्थाय हर्षतः ॥ ११३॥ तदैवानेकागव्यूतमिते डम्बरनामके । महासरसि गत्वात्मशस्तहस्तेन धर्मधीः ॥ ११४॥ देशान्तरीयसल्लोकढौकितान् पक्षिणो धनान् । कारागारस्थलोकांश्च मुमोच वचने दृढः ॥ ११५॥ -त्रिभिर्विशेषेकम् । OG TOG DeeMOOL (COM DOWNDOMOQLTDCne
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy