________________
नेमिनाथजिनेन्द्रस्य यात्रया तत्र पूतया । साधुश्राद्धैः सहानेकैः पवित्रात्माऽथ सोऽभवत् ॥ ८७॥ तत्र श्रीनेमिनाथस्य प्रतिमाद्वितयं तदा । तत्कालनिर्मितश्रीमन्नेम्यर्हत्पादुकायुतम् ॥ ८८॥ प्रत्यतिष्ठत स सूरिश्च श्रेष्ठो ज्येष्ठप्रतिष्ठया । श्रीसङ्घविहितानन्तगीतमानादिकोत्सवैः ॥ ८९॥ आगरानगरे स्वर्णटङ्कादिव्ययतस्ततः । न कदापि पुरैतादृग्जाताजाग्रन्महोत्सवात् ॥ ९०॥ श्रीमानसिंह-कल्याणमल्लकारितमद्भुतम् । स चिन्तामणिपार्थादेः प्रत्यस्थात्प्रतिमोच्चयम् ॥ ९१॥ ९०-९१ - ततः श्री सोरीपुरे श्री नेमिनाथतीर्थङ्करस्य यात्रा नवीनप्रतिमा-पादुकानां प्रतिष्ठाकरणात् । स श्री हीरविजयसूरिः श्रीचिन्तामणिपार्थादेः प्रतिमोच्चयं प्रतिमासमूहं प्रत्यस्थात् प्रत्यतिष्ठत इत्यर्थः । कस्मात् ? जाग्रन्महोत्सवात् । कथं भूतात् पुरा पूर्वं कदापि एतादृग् जातात् तादृग् जात इतीदं सुपेति समासत्वात् समासान्तमेकृपदम् । कस्माज्जाग्रन्महोत्सवात् स्वर्णटङ्कादिव्यग्रतः स्वर्णटङ्कादिव्ययः तस्मात् ।।
प्रादुरासीत्ततस्तत्र तत्तीर्थं भुवि विश्रुतम् । . जाग्रत्प्रभावं सर्वेषां मनोवाञ्छितदानतः ॥ ९२॥ ततः पुनरपि. श्रीमत्फत्तेपुरपुरे वरे । समागत्यामीलत्प्रीत्या साहिना सह सद्गुरुः ॥ ९३॥ तस्मिन्नवसरे यावदेकप्रहरमादरात् ।। धर्मवार्ता विधायैवं श्रीसाहिस्तमभाषत ॥ ९४॥ द्रष्टुं त्वद्वदनाम्भोजमत्युत्कण्ठितमानसः । दूरदेशात् समाहूय जातोऽहं धर्मतत्परः ॥ ९५॥
MOT DETET888BETONTON